🕉️ 23 November 2026, Monday · 03:27:21 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

बाणयुद्ध
bāṇayuddha
🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
बाणयुद्ध न० ६ त० । कृष्णेन सह शिवसाहाय्यकस्य बाणस्य युद्धे तच्च युद्ध भाग० १० । ६१ अध्यावादो दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (4569,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
बा(वा)णयुद्धं, क्ली, (बाणेन सह युद्धम् ।) बाण- राजेन सह श्रीकृष्णस्य संग्रामः । तस्य विव- रणम् । यथा, -- श्रीशुक उवाच । “बाणः पुत्त्रशतज्येष्ठो बलेरासीन्महात्मनः । सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥ भगवान् सर्व्वभूतेशः शरण्यो भक्तवत्सलः । वरेण च्छन्दयामास स तं वव्रे पुराधिपम् ॥ स एकदाह गिरिशं पार्श्वस्थं वीर्य्यदुर्म्मदः । किरीटेनार्कवर्णेन संस्पृशंस्तत्वदाम्बुजम् ॥ नमस्ये त्वां महादेव ! लोकानां गुरुमीश्व- रम् । पुंसामपूर्णकामानां कामपुरामराङ्घिपम् ॥ दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् । त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ कण्डूत्या निभृतैर्दोभिर्यु युत्सुर्दिग्गजानहम् । आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ॥ तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा । तद्दर्पघ्नं भवेन्मूढ ! संयुगं मत्ममेन ते ॥ इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप ! । प्रतीक्षन् गिरिशादेशं स्ववीर्य्यनशनं कुधीः ॥ तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्यालभत कान्तेन प्रागदृष्टश्रुतेन सा ॥ सा तत्र तमपश्यन्ती क्वासि कान्तेतिवादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता । सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता ॥ कं त्वं मृगयसे ! सुभ्रु ! कीदृशस्ते मनोरथः । हस्तग्राहं न तेऽद्यापि राजपुत्त्र्युपलक्षये ॥ ऊषोवाच । दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः । पीतवासा बृहद्बाहुर्योषितां हृदयङ्गमः ॥ तमहं मृगये कान्तं पाययित्वाधरं मधु । क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ [] चित्रलेखोवाच । व्यसनन्तेऽपनेष्यामि त्रिलोक्यां यदि भाव्यते । तमानेष्ये वरं यस्ते मनोहर्त्ता तमादिश ॥ इत्युक्त्वा देवगन्धर्व्वसिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ मनुजेषु च सा वृष्णीञ्छू रमानकदुन्दुभिम् । व्यलिखद्रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया । सोऽसावसाविति प्राह स्मयमाना महीपते ! ॥ चित्रलेखा तमाज्ञाय पौत्त्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् ! द्बारकां कृष्णपालि- ताम् ॥ तत्र सुप्तं सुपर्य्यङ्के प्राद्युम्निं योगमास्थिता । गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥ सा च तं सुन्दरवरं विलोक्य मुदितानना । दुष्प्रेक्ष्ये स्वगृहे पुंभी रेमे प्राद्युम्निना समम् ॥ परार्द्ध्यवासः स्रग्गन्धधूपदीपासनादिभिः । पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषणार्च्चितः ॥ गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया । नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥ तां तथा यदुवीरेण भुज्यमानां हतत्रपाम् । हेतुभिर्लक्षयाञ्चक्रुराप्रीतां दुरवच्छदैः ॥ भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्व्वयम् । विचेष्टितं लक्षयामः कन्यायाः कुलदूषणम् ॥ अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो ! । कन्याया दूषणं पुंभिर्दुष्प्रेक्षाया न विद्महे ॥ ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः । त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद्यदूद्वहम् ॥ कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् । बृहद्भुजं कुण्डलकुन्तलत्विषा स्सितावलोकेन च मण्डिताननम् ॥ दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम् । बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः ॥ स तं प्रविष्टं व्रतमाततायिभि- र्भटैरनेकैरवलोक्य माधवः । उद्यम्य मौर्व्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया ॥ जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकरयूथपोऽहनत् । ते हन्यमान
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬