बाणिज्य न० बणिजो भावः, कर्म वा ब्राह्मणादित्वात् ष्यञ् । क्रयविक्रयादौ बाणिज्येन गतस्य मे गृहपतेर्वार्त्तापि न श्रूयते” सा० ३ परि० । तत्र विहितनिषिद्धानि भिता० उक्तानि यथा “मानेन तुलथा वापि योऽंशमष्टमकं हरेत् । दण्डं सदाप्यो द्विशतं वृद्धौ हानौ च कल्पितम्” । यः पुन- र्वणिक् व्रीहिकार्पासादेः पण्यस्याष्टममंशं कूटमानेन कूटतुलया वाऽन्यथापहरत्यऽसौ पणानां द्वशा दण्ड- नीयः । अपहृतस्य पुनर्द्रव्यस्य वृद्धौ हानौ च दण्ड- स्यापि वृद्धिहानी कल्प्ये । “भेषजस्नेहलवणगन्धधान्य गुडादिषु । पण्येषु प्रक्षिपन् हीनं एणान् दाप्यस्तु षो- डश” याज्ञ० । भेषजमौषधद्रव्य स्नेहो वृतादिः । गन्ध द्रव्यमुशीरादि आदिशब्दाद्धिङ्गुमरिचादि । एवेष्वसार- द्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः । किञ्च । “मृच्चर्सदमणिसूत्रायःकाष्ठबल्कलवाससाम् । अजातौ जाति- करणे विक्रेयाष्टगुणोदमः” य ज्ञ० । “न बिद्यते बहुमूल्या- जातिर्यस्मिन् मृच्चर्मादिके तदजाति तस्मिन् जातिकरणे विक्रयार्थं गन्धवर्णरसान्तरसञ्चारणेन बहुमूल्यजातीय सादृश्यसम्पादने यथा मल्लिकामोदपञ्चारणेन मृत्तिकायां सुगन्धापादनमिति । मार्जारचर्मणि बर्णोत्कर्पापादनेन न्यःघ्रचर्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मराग इति कार्पातिके मृले गुग्पोत्कर्षामनेत्र पट्टस्मूलामति [] कार्ष्णायसे वर्णोत्कर्षाधानेन रजतमिति बिल्वकाष्ठे चन्द नामोदसञ्चारणेन बन्दनमिति कक्कौले त्वगाख्यं लवङ्ग- मिति कार्पासिके बाससि गुणोत्कर्षाधानेन कौशेयमिति विक्रेयस्मापादितस्य दृश्यस्य मृच्चर्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः । “समुद्गपरिवर्त्तञ्च सारभिआण्डञ्च कृत्त्रि- मम् । आधानं विक्रयं वापि नयतो दण्डकल्पना भिन्ने पणे तु पञ्चाशत्पणे तु शतमुच्यते । द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान्” याज्ञः । मुद्गं पिधानं मुद्गेन सह वर्त्तत इति समुद्गं करण्डकम् । परिवर्त्तनं व्यत्यासः । योऽन्यदेवमुक्तानां पूर्णं करण्डकं दर्शयित्वा हस्तलाघवेनान्यदेव स्फटिकानां पूर्णकरण्डकं समर्पयति यश्च सारं भाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रय- माधिं बा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्त्रिमकस्तूरिकादेर्मूल्यभतं पणे भिन्ने न्यूने न्यूनपण मूल्यमिति” । “लोकेऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं तथा । षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः । गणिकन्तु लित मेयं क्रियया रूपतः श्रियेति” गणित क्रमुकफलादि तुमितं कुङ्कुमादि मेयं शाल्यादि क्रियय बाहदोहादि- रूपयोपलक्षितमश्वमहिष्यादि । रूपतः पण्यङ्गनोदि श्रिया दीप्त्यामरकतपद्मरागादि । इत्येतत् षट् प्रकारमपि पण्यम्” मिता० । तस्य विप्रैरापदि स्वयं कार्य्यत्वं वि- दधे वृहस्पतिः “कुषीदकृषिबाणिज्य प्रकर्वीतास्वयं कृतम् । आपत्काले स्वय कुर्वन् नैनसा लिप्यते दिव्ज । लब्धलाभः पितॄन् देवःन् ब्राह्मणांश्चैव पूकयेत् । ते तुष्टास्तस्य त दाषं शमयन्ति न संशयः । बणिक् कुषीदी- दद्यात्तु वस्त्रगोकाञ्चनादिकम् । कृषीबलोऽन्नपानादि यानशय्याशनानि च । पण्येभ्यो विंशक दत्त्वा पशु- स्वर्णादिकं शतम् । बणिक् कुषीद्यदोषः स्यात् ब्राह्मणा- नाञ्च पूजनात्। राज्ञे बत्त्वा तु षड्भागं देवतानाञ्च विशकम्” आ० त० । अधिक कृषिशब्दे २२०५ पृ० दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (4569-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।