बालतन्त्रं, क्ली, (बालाय बालकरक्षार्थं तन्त्रमुपायः शास्त्रं वा ।) गर्भिणीचर्य्या । तत्पर्य्यायः । कुमारभृत्या २ गर्भिण्यवेक्षणम् ३ । इति त्रिकाण्डशेषः ॥ (अस्य विवरणन्तु सुश्रुते सूत्र- स्थाने १ अध्याये । यथा, “शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यमगद- तन्त्रं वाजीकरणतन्त्रमिति ॥” कौमारभृत्यस्य वा बालतन्त्रस्य लक्षणमाह तत्रैव । “कौमार- भृत्यं नाम कुमारभवनधात्रीक्षीरदोषसंशोध- नार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुप- शमनार्थम् ॥” बालतन्त्राणि कानि तान्याह तत्रैव ३ अध्याये । “नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् । अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् ॥ पूतनायास्तथान्धाया मण्डिका शीतपूतना । नैगमेयचिकित्सा च ग्रहोत्पत्तिः सयोनिजा ॥ कौमारतन्त्रमित्येतत् शारीरेषु प्रकीर्त्तितम् ॥” एतेषां विवरणन्तु बालग्रहशब्दे द्रष्टव्यम् ॥)
📄 मूल मुद्रित पृष्ठ (3-424-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।