बाहुदा, स्त्री, (बाहू दत्तवती या । बाहु + दा + आतोऽनुपसर्गेति ।” ३ । २ । १ । इति कः । लिखितस्य मुनेर्बाहुप्रदानादस्यास्तथात्वम् ।) नदीविशेषः । तत्पर्य्यायः । सैतवाहिनी २ । इत्य- मरः ॥ कदाचिल्लिखिताख्यस्य मुनेर्ज्येष्ठभ्रातुः शङ्खस्य शून्याश्रमे फलभक्षणाद्राज्ञा बाहू च्छिन्नौ तौ चास्यां नद्यां तपस्यतस्तस्य पुन- र्जाताविति । इत्यमरटीकायां भरतः ॥ * ॥ (एतत्कथा यथा, महाभारते । १२ । २३ । १७ -- ४० । व्यास उवाच । “अत्राप्युदाहरन्तीममितिहासं पुरातनम् । शङ्खश्च लिखितश्चास्तां भ्रातरौ संशितव्रतौ ॥ तयोरावसथावास्तां रमणीयौ पृथक् पृथक् । नित्यं पुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ॥ ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः । यदृच्छयाथ शङ्खोऽपि निष्क्रान्तोऽभवदाश्रमात् ॥ सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा । फलानि पातयामास सम्यक्परिणतान्युत ॥ अभ्युपादाय विश्रब्धो भक्षयामास स द्विजः । तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः ॥ भक्षयन्तन्तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् । कुतः फलान्यवाप्तानि हेतुना केन खादसि ॥ सोऽब्रवीत् भ्रातरं ज्येष्ठमुपसृत्याभिवाद्य च । इत एव गृहीतानि मयेति प्रहसन्निव ॥ तमब्रवीत्तथा शङ्खस्तीव्ररोषसमन्वितः । स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ॥ गच्छ राजानमासाद्य स्वकर्म्म कथयस्व वै । अदत्तादानमेवं हि कृतं पार्थिवसत्तम ! ॥ स्तेनं मां त्वं विदित्वा च स्वधर्म्ममनुपालयन् । शीघ्रं धारय चौरस्य मम दण्डं नराधिप ! ॥ इत्युक्तस्तस्य वचनात् सुद्युम्नं स नराधिपम् । अभ्यगच्छन् महाभागो लिखितः शंसितव्रतः ॥ सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् । [] अभ्यगच्छत् सहामात्यः पद्भ्यामेव जनेश्वरः ॥ तमब्रवीत् समागम्य स राजा धर्म्मवित्तमम् । किमागमनमाचक्षु भगवन् ! कृतमेव तत् ॥ एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् । प्रतिश्रुत्य करिष्येति श्रुत्वा तत्कर्त्तुमर्हसि ॥ अनिसृष्टानि गुरुणा फलानि मनुजर्षभ ! । भक्षितानि महाराज ! तत्र मां शाधि मा चरम् ॥ सुद्युम्न उवाच । प्रमाणञ्चेन्मतो राजा भवतो दण्डधारणे । अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ! ॥ स भवानभ्यनुज्ञातः शुचिकर्म्मा महाव्रतः । ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ॥ व्यास उवाच । स च्छन्द्यमानो ब्रह्मर्षिः पार्थिवेन महात्मना । नान्यं स वरयामास तस्माद्दण्डादृते वरम् ॥ ततः स पृथिवीपालो लिखितस्य महात्मनः । करौ प्रच्छेदयामास धृतदण्डो जगाम सः ॥ स गत्वा भ्रातरं शङ्खमार्त्तरूपोऽब्रवीदिदम् । धृतदण्डस्य दुर्बुद्धेर्भवांस्तत्क्षन्तुमर्हसि ॥ शङ्ख उवाच । न कुप्ये तव धर्म्मज्ञ ! न त्वं दूषयसे मम । धर्म्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ॥ स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि । देवानृषीन् पितृंश्चैव मा चाधर्म्मे मनः कृथाः ॥ तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा । अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ॥ प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ । ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ॥” नदीयं पुरा प्रसेनजिद्भार्य्या गौरी नाम आसीत् । ततः क्रुद्धेन भर्त्त्राभिशप्ता नदीरूपा जाता । यथा, हरिबंशे । १२ । ५ । “लेभे प्रसेनजिद्भार्य्यां गौरीं नाम पतिव्रताम् । अभिशप्ता तु सा भर्त्रा नदी वै बाहुदा कृता ॥” पूरुवंशोद्भवस्य परीक्षिन्नाम्नो नृपतेर्भार्य्येयं बाहुदा । यथा, महाभारते । १ । ९५ । ४२ । “परीक्षित् खलु बाहुदामुपयेमे सुयशां नाम तस्यामस्य जज्ञे भीमसेनः ॥) बाहुदात्री च ॥
📄 मूल मुद्रित पृष्ठ (3-430-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।