🕉️ 27 November 2026, Friday · 12:53:08 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

बाहुयुद्ध
bāhuyuddha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
कुश्ती (2.8.106) नियुद्ध
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
बाहुयुद्ध संज्ञा पुं॰ [सं॰] कुश्ती ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
बाहु—युद्ध n. ‘a˚-fight’, a close fight, MBh.; Kathās.
📄 मूल मुद्रित पृष्ठ (730,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
बाहुयुद्ध न० ३ त० । नियुद्धे अमरः । तत्प्रकारः भा० वि० १३ अ० यथा “कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः । सन्निपातावधू- तेश्च प्रमाथोन्मथनैस्तथा । क्षेपणैर्मुष्टिभिचैव वरा- होद्धूतनिःस्वनैः । तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च । शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः । जानुभि- श्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः । तद्युद्धमभवद्घोर- मशस्त्रं बाहुतेजसा । बलप्राणेन शूराणां समाजोत्सव सन्निधौ । अराजत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः । बलिनोः संयुगे राजन्! वृत्रवासवयोरिव । प्रकर्षणाकर्ष- णयोरभ्याकर्षविकर्षणैः । आकर्षतुरथान्योन्यं जानु- भिश्चापि जघ्नतुः” । मू० “कृतं क्वचिद्देशे निपीडनं प्रतिकृतं तस्य शोधनम् । सुसङ्कटैः मुष्टिग्रहणेन कृशीकृतैः सकङ्क- टैरिति पाठे सकवचैः मकिणैर्वा “कङ्कटो बाहुवरणे कवचे कठिने किणे” इति विश्वः सन्निपातोऽङ्गसंघट्टनम् अबधूतं तेनैव दूरीकरणं प्रमाथादय उक्ता मल्लशास्त्रे “निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते । यत्तूत्था- याङ्गमथनं तदुन्मथनमुच्यते । क्षेपणं कथ्यते यत्तु- स्थानात् प्रच्यावनं हठात् । उभयोर्भुजयोर्मुष्टिरुरोमध्ये निपात्यते । मुष्टिरिच्यते तज्ज्ञैर्गल्लविद्याविशारदैः । अ- वाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः । क्षिप्तस्य शब्दः स भवेद्वराहोद्धूतनिःस्वनः । तलैर्वज्रनिपातैर्वज्रवद्दृढ- पातैश्चपेष्टैः । “अङ्गुल्यः प्रसृतास्तास्तु प्रसृष्टा या उदी- रिताः । ऋज्वी दृढा रुषा क्षिप्तशालका साङ्गुली स्मृता” । तस्यानखपातैः पादोद्धूतैः पादप्रसारणेनाक्षेपैः जानुभिः शिरोभिश्च कृतैरवघट्टनैरास्फालनैः अश्मनिर्घोषैरित्युभय- विशेषणम् । अशस्त्रं निन्द्यं यथोक्तं तत्रैव “बाहुयुद्धं हि भल्लानामशस्त्रमृषिभिः स्मृतम् । मृतस्य तत्र न स्वर्गो यशो- निहापि विद्यते” इति । बलप्राणेन बलेन शारीर- बलेन प्राणेन मानसबलेन च । सोत्क्रुष्टनिनदः हीहीशब्दोच्चाराणेन खज्जितस्थ समुत्यापनम् । तत्स- [] हितः । “आकृष्य क्रोडीकरणं प्रकर्षणमुदाहृतम् । आकर्षणं लीलयैव सन्मुखीकरणं स्मृतम् । पुरः पश्चात् पार्श्वयोश्चाभ्याकर्षो भ्रमणं तथा । पश्चात् प्रपातनं वेगा- द्विकर्षणमुदाहृतम्” नीलक० ।
📄 मूल मुद्रित पृष्ठ (4574-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
बाहुयुद्धं, क्ली, (बाह्वो र्बाहुभ्यां वा युद्धम् ।) भुजाभ्यां संग्रामः । मल्लयुद्धम् । तत्पर्य्यायः । नियुद्धम् २ ॥ तस्य क्रमो यथा, -- [] “कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकङ्कटैः । सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः । तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥ शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः । जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥ तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा । बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥” इति विराटपर्व्वणि १२ अध्यायः ॥ सकङ्कटः कङ्कटः करघर्षणजः किणस्तत्सहि- तैरित्यर्थः । कृतप्रतिकृतैः परप्रयुक्तिप्रतिकृतैः । चित्रैर्विचित्रैर्बन्धैरिति शेषः । सन्निपातेत्यादि । एते मल्लानां शिक्षाविशेषाः । सन्निपातैः परस्परसङ्घघातैः । अवधूतैर्बद्धमुष्टिभुजाघातैः । प्रमाथैः पातयित्वा पेषणैः । उन्मथनैः अन्त- रीक्षे भुजाभ्यां मथनैः । क्षेपणैः स्थानात् प्रच्यावनैः । बद्धाङ्गुलिकरो मुष्टिः । “अवाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः । क्षिप्तस्य शब्दः स भवेद्बराहोद्धूतनिस्वनः ॥ तर्जन्यङ्गुष्ठमध्यन प्रसारितकरो हि यः । सम्प्रहारस्तलाख्यस्तु संग्रहो वज्रमिष्यते ॥” अद्धचन्द्रतुल्यमल्लमुष्टिर्वज्रमित्यर्थः । “प्रसृताङ्गुलिहस्तेन प्रसृष्टिः प्रहृतिः स्मृता । द्बिगुणीकृतबाहुर्यस्तदीयार्थं यथाबलम् ॥ प्रहारः स शलाका स्यात् पादोद्धूतः पदा- हतम् ॥” जानुभिश्चाश्मनिघोषैः पाषाणघोरसदृशध्व- निभिः करणैर्यान्यवघट्टनानि तैः । बलप्राणेन बलोत्कर्षेण । इति तट्टीका ॥ (यथा, मार्क- ण्डेयपुराणे । ८३ । १३ । “ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः । बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥”)
📄 मूल मुद्रित पृष्ठ (3-430-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "बाहुयुद्ध" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬