बुधचार पु० ६ त० । वृ० स० ७ अ० उक्ते बुधग्रहस्य शुभाशुभ- मूचके सवारे यथा “नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् । जलदहनपवनभयकृद्धान्यार्थेक्षयविवृद्ध्यै वा । विचरन् श्रवणधनिष्ठाप्राजापत्येन्दु ४ । ५ विश्वर्दवानि २१ । मृद्नन् हिमक- रतनयः करोत्यवृष्टिं सरोगभयाम् । रौद्रा ६ दीनि मघा- न्तन्थ पात्रिते यन्द्रजें प्रजार्पाष्टा । शखनिपातक्षुद्भय- [] रोगानावृष्टिसन्तापैः । हस्तादीनि विचरन् षडृक्षाण्युप- पीडयन् गवामशुभः । स्नेहरसार्घविवृद्धिं करोति चोर्वीं प्रभूतान्नाम् । आर्यम्णं १२ हौतभुजं ३ भद्रपदामुत्तरां यमेशं २ च । चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसङ्क्षय- कृत् । आश्विनवारुण २४ मूलान्यु पमृद्नन् रेवतीं च चन्द्र- सुतः । पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः । पूर्वाद्यृक्ष ११ । २० । २६ त्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात् क्षुच्छस्त्रतस्करामयभयप्रदायी चरन जगतः” । इतःपरं तस्य गतिबिशेषास्तत्राभिहितास्तात्फलञ्च तत्र दर्शितं तच्च गतिशब्दे २५१५ पृ० दर्शितम् । अध्यायशेषे च । “पौषाषाढंश्रावणवैशाखेष्विन्दुजः समाघेषु । दृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु । कार्त्तिकेऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः । शस्त्रचौर- हुतभुगगदतोयक्षुद्भयानि च तदा विदधाति । रुद्धानि सौम्येऽस्तमिते पुराणि यान्युद्गते तान्युपयान्ति मोक्षम् । अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवतीति तज्ज्ञाः । हेमकान्तिरथ वा शुकवर्णः सस्यकेन मणिना सदृशो वा । स्निग्धमुर्तिरलघुश्च हिताय व्यत्यये न शुभ- कृच्छशिपुत्रः” ।
📄 मूल मुद्रित पृष्ठ (4586-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।