बुधाष्टमी, स्त्री, (बुधवारयुता अष्टमी । शाक- पार्थिवादित्वात् समासः । “अष्टमीबुधवारेण पक्षयोरुभयोर्यदा । भविष्यति तदा तस्यां व्रतमेतत् कथा पुरा ॥” इति वचनादस्यास्तथात्वम् ।) व्रतविशेषः यथा । बुधाष्टमीव्रतं चैत्रपौषहरि- शयनादीतरकाले कर्त्तव्यम् । यदाह राज- मार्त्तण्डः । “पतङ्गे मकरे याते देवे जाग्रति माधवे । बुधाष्टमीं प्रकुर्व्वीत वर्जयित्वा तु चैत्रकम् ॥ प्रसुप्ते च जगन्नाथे सन्ध्याकाले मधौ तथा । बुधाष्टमीं न कुर्व्वीत कृता हन्ति पुराकृतम् ॥” एतद्व्रतमारब्धमपि चैत्रादौ न कर्त्तव्यमिति । यथा स्मृतिः । “मीने धनुषि देवेशे सुप्तेऽशुद्धदिने तथा । बुधाष्टमीं न कुर्व्वीत पूर्व्वविद्धामपि क्वचित् ॥” इति व्रतकालविवेकः ॥ * ॥ अपि च । “अष्टमी बुधवारेण पक्षयोरुभयोर्यदा । भविष्यति तदा तस्यां व्रतमेतत् कथा पुरा ॥ तस्यां नियमकर्त्तारो न स्युर्दुर्गतिभाजनाः । तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयम् ॥ भक्तं सद्भक्तिश्रद्धाभ्यां कामनायुक्तमानवः । आम्रपत्रपुटे कृत्वा यो भुङ्क्ते कुशवेष्टिते ॥ [] कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवेत् । बुघं पञ्चोपचारेण पूजयित्वा जलाशये ॥ शक्तितो दक्षिणां दद्यात् कर्करीं तण्डुलान्विताम् । बुं बुधायेति बीजार्णैः स्वार्णे वा कमलादिके ॥ बाणचापधरं श्यामं दले चाङ्गानि मध्यतः । बुधाष्टमीकथा पुण्या श्रोतव्या व्रतिभिर्ध्रुवम् ॥ * ॥ पुरे पाटलिपुत्त्राख्ये वीरो नाम द्बिजोत्तमः । रम्भा भार्य्या च तस्यासीत् कौशिकः पुत्त्र उत्तमः ॥ दुहिता विजया नाम घनपालो वृषोऽभवत् । गृहीत्वा कौशिकस्तञ्च ग्रीष्मे गङ्गागतोऽरमत् ॥ गोपालकैर्वृषश्चौरैः क्रीडव्यपहृतो बलात् । गङ्गातः स च उत्थाय वनं बभ्राम दुःखितः ॥ जलार्थं विजया चागात् भ्रात्रा सार्द्धञ्च साप्य- गात् । पिपासितो मृणालार्थी आगतोऽथ सरोवरम् । दिव्यस्त्रीणाञ्च पूजादि दृष्ट्वा चाप्यथ विस्मितः ॥ स च गत्वा ययाचेऽन्नं सानुजोऽहं बुभुक्षितः । स्त्रियोऽब्रुवन् व्रतं कर्त्तुं दास्यामश्च कुरु व्रतम् । पश्वर्थमन्नपानार्थं पूजयामासतुर्बुधम् । पुटकद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम् ॥ स्त्रियो गता गतौ तौ तु धनपालमपश्यताम् । चौरैर्हृतं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम् ॥ वीरञ्च दुःखितं नत्वा रात्रौ सुप्त्वा यथासुखम् । लग्नञ्च त्वरितं दृष्ट्वा कस्य देया सुता मया । यमायेत्यब्रवीद्दुःखात् स चायाद्व्रतसत्- फलात् ॥ स्वर्गं गतौ च पितरौ व्रतं राज्याय कौशिकः । चक्रेऽयोध्यामहाराज्यं दत्त्वा च भगिनीं यमे ॥ यमोऽपि विजयामाह गृहस्था त्वं पुरान्तरम् । नोद्धाटयान्यत्र गते यमे सा न तथाकरोत् ॥ अपश्यन्मातरं स्वां सा यामिकां पाशयातनाम् । अथोद्बिग्ना कौशिकाय आचक्षाणा विमुक्ति- दम् । व्रतं चक्रे ततो मुक्ता माता तस्माच्चरद्व्रतम् ॥” इति गारुडे बुधाष्टभ्यादि १३३ अध्यायः ॥ * ॥ विस्तरस्तु ब्रह्मपुराणोक्तबुधाष्टमीव्रतपद्धतौ द्रष्टव्यः ॥
📄 मूल मुद्रित पृष्ठ (3-436-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।