भङ्गा, स्त्री, (भज्यते इति । भन्ज् + “हलश्च ।” ३ । ३ । १२१ । इति बाहुलकाद् घञ् टाप् ।) वृक्षविशेषः । तत्पर्य्यायः । मातुलानी २ । इत्य- मरः । २ । ९ । २० ॥ (अस्याः पर्य्याया गुणाश्च यथा, “भङ्गा गजा मातुलानी मादिनी विजया जया । भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः ॥ तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्द्धिनी ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) द्वे भङ्गायां भङ्गा काश्मीरेषु स्वनामख्याता । इति सुभूत्यादयः । इति भरतः ॥ एतस्याः फलं कलायपरिमाणमिति सर्व्वस्वम् । इति सारसुन्दरी ॥ शणाख्यशस्यम् । यथा, -- भङ्गा शस्ये शणाह्वये । इति मुकुटधृतरुद्रः ॥ त्रिवृता । तेउडी इति भाषा । यथा, -- “त्रिभण्डी रेचनी भङ्गा कलिङ्गा परिपाकिनी ॥” इति शब्दचन्द्रिका ॥ औषधविशेषः । भाङ् इति सिद्धि इति च भाषा । यथा, -- “त्रैलोक्यविजया भङ्गा विजयेन्द्राशनं जया ॥” इति शब्दचन्द्रिका ॥ अस्या गुणाः विजयाशब्दे द्रष्टव्याः ॥
📄 मूल मुद्रित पृष्ठ (3-476-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।