भक्तिरस पु० भक्तिः ईश्वरविषया रतिरेव रसः । तत्स्थायि- भावके रसभेदे “विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः । एषः कृष्णरतिस्थायिभावो भक्तिरसो भवेत्” इति भक्ति- रसामृतसिन्धुः । मुक्ताफले तद्वीकायाञ्च भक्तेरसत्वम् व्यवस्थापितं यथा “भक्तिरसस्यैव हास्यशृङ्गारकरुण रौद्रभयानकवीभत्सशान्ताद्भुतवीररूपेणानुभवात् व्या- सादिभिः वर्णितस्य विष्णोर्विष्णु भक्तानां वा चरित्रस्य नवरसात्मकस्य श्रवणादिना जनितश्चमत्कारो हि भक्ति- रसः” मुक्ता० । “भक्तिर्विहिताऽविहिता च सैव परां प्रकर्षरेखामापन्नारसः । यदाहुः । “भावा एवातिसम्पन्नाः प्रयान्ति रसताममी” इति । भक्तिरसानुभावाच्च भक्तः यथा तृप्त्यनुभवात् तृप्त इत्युच्यते सचानुभवो नवधा हास्यादि भङ्गिभेदेन हास्यादय एव हि भगवति प्रयुज्यमानाः “तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेदिति” भक्ति- लक्षणाक्रान्तत्वात् भक्तिरसपदवीमासादयन्तीति भावः । हास्यादिलक्षण तु र्वक्ष्यते । ते चामी नवापि सुखः ख मोहात्मकत्रैगुण्यव्यतिकरोद्भवाः तथा हि । प्रथमे "यो रजोमूलाः, मध्यास्तु तमोमूलाः, चरमे सत्त्वमूलः । रतिहासादयो हि रजःप्रभृतीनां विकारा रत्युक्त- मेकादशस्य पञ्चविंशाध्याये । तत्रापि प्रथमे त्रिषु- [] क्रमात् सत्त्वसंमिश्रं तमःमंमिश्रं सत्त्वतमःसंमिश्रं च रजोमूलम् । मध्येषु रजोमिश्रं सत्त्वमिश्रं रजः सत्त्वमिश्रञ्च तमः । चरमेषु तमोमिश्रं रजोमिश्रं रज- स्तमोमिश्रं च सत्त्वम् हेयाभिधानक्रमेण चैष क्रमः” । आक्षेपपूर्वकं तस्या रसरूपत्वं तत्र व्यवस्थापितं यथा “तस्माद्विभावादिरससामग्रीविरहान्न भक्ते रसत्वम् अत- एवायमन्यैः “एवं भक्तावपि वाच्यमिति” वदद्भिः स्रत्या- दिष्टः । अत उत्तरं पठति । व्यासादिभिरिति । वर्णितस्य चरित्रस्य विष्णुभक्ताः गोप्यादयः श्रवणादिनेत्यादिशब्दा- द्दर्शर्नकीर्त्तनस्मरणाभिनयात् चमत्कारः सामाजिकानां हि यस्मादेवंसामग्रीको भक्तिरसस्तस्मादनपह्नवनीय इत्यर्थः । तत्रैषा सामग्री केनाप्युपायेन मनीनिवेशः स्थायी चरित्रश्रवणादय उद्दीपनविभावा विष्णु विष्णु- भक्ताश्चालम्बनम् अनुभावास्तु स्तम्भादयो वक्ष्यमाणा यथायोग्यं धृत्यादिका व्यभिचारिणश्च । उपायस्तु रति- हासादिः । कविभिर्वर्णितस्येत्यनेन महाकविप्रबन्धसमर्प्य- माणेष्वेव रसव्यवहारो नान्यत्रेऽत्युक्तम् । एवमेवैतत् अनुकार्य्येषु हि जानकीरामभद्रादिषु रत्यादिमात्रं चमत्कारश्च यद्यपि शृङ्गारादौ क्वचिदस्ति । तथापि तस्य भयानकादावनुपलम्भान्न तत्र रसव्यवहारः । अतएव च “तानि चेन्नाट्यकाव्ययोः” इत्यादीनि विशेषणानि । अभि- नयैरुपदर्श्यमानादपि सन्दर्मैः समर्प्यमाणो रसोऽतिस्वदते अतएवोक्तं “कविवागभिनेयञ्च तदुपायो द्विधेष्यते । वस्तुशक्तिमहिम्ना तु प्रथमोऽत्र विशिष्यते” इति । यत्त्व भिनवगुप्तहेमचन्द्रभ्याम् “एवं भक्तावपि बाच्यम्” इत्युक्तं तदसत् रसत्वस्य दर्शितत्वात् । सामग्रीसद्भावेऽपि पत्या- ख्यानमरोचकतामात्रशरणम् । न च संगच्छमानोप्य यमसर्वविषयत्वात् रसत्वात्च्यवतामिति चोद्यं तथा सति सर्वरसोच्छेदापातात् । तथा हि शोत्रियजरन्मी- मांसकादयो हि नाट्यमण्डपान्तःप्रविष्टा अपि चमत्- काराभावात् कीशप्राया एव । एवं प्रशान्तब्रह्मचारि- प्रभृतयः शृङ्गाररसास्वादे बालानां गाढरागाणाञ्च शान्तरसचर्वणानभिज्ञत्वम् । अननुभूतशोकस्पर्शानां च करुणरसास्वादावसरे पाषाणप्रख्यत्वम् तस्मात् सवासन- स्यैव रसचर्वणेति भक्तिरसदर्शनम्” ।
📄 मूल मुद्रित पृष्ठ (4630-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।