🕉️ 23 November 2026, Monday · 05:19:14 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

भद्रकाली
bhadrakālī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
भद्रकाली संज्ञा स्त्री॰ [सं॰]
१. दुर्गा देवी की एक मुर्ति जो १६ हाथोंवाली मानी जाती है ।
२. कात्यायिनी ।
३. कार्तिकेय की एक मातृका का नाम । विशेष—पुराणानुसार इसकी उत्पत्ति दक्ष यज्ञ के समय भगवती के क्रोध से हुई थी । इसने उत्पन्न होते ही वीरभद्र के साथ मिलकर यज्ञ का ध्वंस किया था ।
४. गधप्रसारिणी ।
५. नागरमोथा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
भद्र—काली f. N. of a goddess (later a form of Durgā), ŚāṅkhGṛ.; Mn.; MBh. &c.
of one of the Mātṛs attending on Skanda, MBh.
of a village on the right bank of the Ganges, L.
of a plant (= गन्धोली), L.
📄 मूल मुद्रित पृष्ठ (746,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
भद्रकाली स्त्री १ दुर्गाशक्तिभेदे “जयन्ती मङ्गला काली भद्र- काली कपालिनी” दुर्गापूजामन्त्रः । तदाविर्भावकथा च कलिपु० ५० अ० दृश्या । तन्मन्त्रादिकं तन्त्रसारे दृश्यम् । २ कुमारानुचरभेदे भा० श० ४७ अ० ।
📄 मूल मुद्रित पृष्ठ (4639,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
भद्रकाली, स्त्री, (भद्रा मङ्गलमयी चासौ काली चेति कर्म्मधारयः । यद्वा, भद्रं कल्याणं कालयतीति । भद्र + कर्म्मण्यण् ।” ३ । २ । १ । इति अण् । ङीप् ।) गन्धोली । कात्यायनी । इति मेदिनी । ले, १५८ । तस्या उत्पत्तिर्यथा, -- श्रीऔर्व्व उवाच । “शृणु त्वं नृपशार्दूल ! भद्रकाली यथा पुरा । प्रादुर्भूता महाभागा महिषेण सदैव तु ॥ महिषासुर एवासौ निद्रायां निशि पर्व्वते । स्वप्नं प्रददृशे वीरो दारुणं घोरदर्शनम् ॥ महामाया भद्रकाली छित्त्वा खड्गेन काशरम् । पपौ तस्य च रक्तानि व्यादितास्यातिभीषणा ॥ ततः प्रातर्भययुतः स दैत्यो महिषासुरः । तामेव पूजयामास सुचिरं सानुगस्तदा ॥ आराधिता तदा देवी महिषेणासुरेण वै । प्रादुर्भूता भद्रकाली भुजैः षोडशभिर्युता ॥ ततः प्रणम्य महिषो महामायां जगन्मयीम् । उवाचेदं वचो नम्रमूर्त्तिर्भक्तियुतोऽसुरः ॥ महिष उवाच । देवि ! खड्गेन संछिद्य शोणितानि शिरो मम । त्वया भुक्तानि दृष्टानि मया स्वप्ने सुनिश्चितम् ॥ अवश्यं तत्त्वया कार्य्यं मया ज्ञातं प्रमाणतः । एतद्रुधिरपानं मे तत्रैकं देहि मे वरम् ॥ वध्यस्तवाहं नात्रास्ति संशयः परमेश्वरि ! । ममापि तत्र नो दुःखं नियतिः केन लङ्घ्यते ॥ किन्तु त्वयैव सहितः शम्भुराराधितः पुरा । मम पित्रा मदर्थेन जातः पश्चादहं ततः ॥ मयाप्याराधितः शम्भुः प्राप्ताश्चेष्टास्तथा वराः । मन्वन्तरत्रयं यावदासुरं राज्यमुत्तमम् । अकण्टकं मया भुक्तमनुतापो न विद्यते ॥ कात्यायनेन मुनिना शप्तोऽहं शिष्यकारणात् । [] सीमन्तिनी विनाशं ते करिष्यति न संशयः ॥ पुरा मुनिं तपस्यन्तं रौद्राश्वं नाम चोत्तमम् । मुनेः कात्यायनाख्यस्य शिष्यं हिमवदन्तिके ॥ दिव्यस्त्रीरूपमतुलं कृत्वाहं कौतुकात्तदा । मया संमोहितो विप्रोऽत्यजन्मूढस्तदा तपः ॥ न दूरात् संस्थितेनाहं मुनिना कात्यसूनुना । ज्ञात्वा मायां तदा शप्तः शिष्यार्थे क्रोधवह्निना ॥ यस्मात्त्वया मे शिष्योऽयं मोहितस्तपसश्च्युतः । कृतस्त्वया स्त्रीरूपेण ततस्त्वां स्त्री हनिष्यति ॥ इति मां शप्तवान् पूर्व्वं मुनिः कात्यायनः पुरा । तस्य शापस्य कालोऽयमागत्य समुपस्थितः ॥ देवेन्द्रत्वं मया प्राप्तं भुक्तं त्रिभुवनं समम् । किञ्चिन्न शोच्यं तत्रास्ति वाञ्छनीयं हि यन्मया ॥ तस्मात्त्वां वै प्रपन्नोऽहं प्रार्थ्यं शेषं हि यन्मया । तद्देहि देवि दुर्गे ! त्वं भूयस्तुभ्यं नमो नमः ॥ श्रीदेव्युवाच । “प्रार्थनीयो वरो यस्ते तं वृणु त्वं महासुर ! । दास्यामि ते वरं प्रार्थ्यं संशयो नात्र विद्यते ॥” महिष उवाच । “यज्ञभागमहं भोक्तुमिच्छामि त्वत्प्रसादतः । यथा यज्ञेषु सर्व्वेषु पूज्योऽहं स्यां तथा कुरु ॥ त्वत्पादसेवां न त्यक्ष्ये यावत् सूर्य्यः प्रवर्त्तते । एवं वरद्वयं देहि यदि देयो वरो मम ॥” श्रीदेव्युवाच । “यज्ञभागाः सुरेभ्यश्च कल्पिता वै पृथक् पृथक् । भागो न विद्यते चान्यो यद्दास्यामि तवाधुना ॥ किन्तु त्वयि मया युद्धे निहते महिषासुर ! । नैव त्यक्ष्यसि मत्पादं सततं नात्र संशयः ॥ मम प्रवर्त्तते पूजा यत्र यत्र च तत्र ते । पूज्यश्चिन्त्यश्च तत्रैव कायोऽयं तव दानव ! ॥ इति श्रुत्वा वचस्तस्याः प्रत्यूचे महिषासुरः । वरं प्राप्येह मुदितः प्रसन्नवदनस्तदा ॥ उग्रचण्डे ! भद्रकालि ! दुर्गे देवि ! नमोऽस्तु ते । प्रभूता मूर्त्तयो देवि ! भवत्याः सकलात्मिकाः ॥ काभिस्ते मूर्त्तिभिः पूज्यो यज्ञेऽहं परमेश्वरि ! । तत् समाचक्ष्व यदि मे भवत्येह कृपा कृता ॥” श्रीदेव्युवाच । “यानि नामानि चोक्तानि त्वयेहं महिषासुर ! । तासु मूर्त्तिषु संस्पृष्टः पूज्यो लोके भविष्यति ॥ उग्रचण्डेति या मूर्त्तिर्भद्रकाली ह्यहं पुनः । यया मूर्त्त्या त्वां हतिष्ये सा दुर्गेति प्रकीर्त्तिता ॥ एतासु मूर्त्तिषु सदा पादलग्नो
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "भद्रकाली" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬