भद्रमुस्ता, स्त्री, (भद्रा मुस्ता ।) नागरमुस्तकः । तत्पर्य्यायः । वराही २ गुन्द्रा ३ ग्रन्थिः ४ भद्रकाशी ५ कशेरुः ६ क्रोडेष्टा ७ कुरु- विन्दाख्या ८ सुगन्धिः ९ ग्रन्थिला १० हिमा ११ बल्या १२ राजकशेरुः १३ कच्छोत्था १४ मुस्ता १५ अर्णोदः १६ वारिदः १७ अम्भोदः १८ मेघः १९ जीमूतः २० अब्दः २१ नीरदः २२ अभ्रम् २३ घनः २४ गाङ्गेयः २५ । अस्या गुणाः । कषायत्वम् । तिक्तत्वम् । शीतत्वम् । पाचनत्वम् । पित्तज्वरकफनाशित्वम् । संग्रा- हित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकः । कुरुबिन्दश्च संख्यातोऽपरः क्रोडकशेरुकः ॥ भद्रमुस्तश्च गुन्द्रा च तथा नागरमुस्तकः । मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् ॥ कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् । अनूपदेशे यज्जातं मुस्तकं तत् प्रशस्यते ॥ तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ॥” इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (3-481-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।