🕉️ 23 November 2026, Monday · 12:37:54 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

भविष्यत्
bhaviṣyat
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
भविष्यत् संज्ञा पुं॰ [सं॰] वर्तमान काल के उपरांत आनेवाला काल । आनेवाला समय । आगामी काल । भविष्य ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
भविष्यत् mfn. about to become or be, future, AV. &c. &c.
भविष्यत् n. the future, f˚ time, AV. &c. &c.
the future tense, AitBr.
water, L.
the fruit of Dillenia Indica, L.
📄 मूल मुद्रित पृष्ठ (750,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
भविष्यत् a. (ती or न्ती f.) About to be, become or come to pass, [] future. --n. The future time. --Comp. --आक्षेपः {1} denying the occurrence of a possible future event. {2} a kind of Alaṃkāra or figure of speech; see Kāv. 2. 126. --कालः futurity. --वक्तृ, --वादिन् a. predicting future events, prophesying.
📄 मूल मुद्रित पृष्ठ (0811-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
भविष्य(त्) पु० भू--“ऌटः सद्वेति” शतृ--स्यट् च पृषो० वा तलीपः । भाविनि १ काले २ तत्कालवर्त्तिनि पदार्थे त्रि० स्त्रियां ङीप् नुम् च “अव्याक्षेपो भविष्यन्त्याः” रघुः । तलोपपक्षे क्लीवता । उत्तर- पदस्थः त्रि० । “यद्भविष्यो विनश्यति” पञ्चत० ३ भवि- ष्यमधिकृत्य कृते पुराणभेदे न० । तच्च महापुराणान्त- र्गतं पुराणं तत्प्रतिपाद्यविषयादिकं नारदीयपु० ४ पा० १०० अ० उक्तं यथा “अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम् । तत्राहं सवदवाना- मादिकर्त्ता समुदातः । सृष्ट्यर्थं तत्र सञ्जातो मनुः स्वायम्भुवः पुरा । स मां प्रणम्य पप्रच्छ धर्मं सर्वार्थ- साधकम । अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहि- ताम् । पुराणानां यदा व्यासो व्यासञ्चक्रे महामतिः । तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः । अथो- रकल्पवृत्तान्तनानाश्चर्य्यकथाचिताम्” । तत्र प्रथम- पूर्वणि । तत्रादिमं स्मृत पर्व ब्राह्मं यत्रास्त्युप- क्रमः । सूतशौनकसंवादै पुराणप्रश्नसंक्रमः । आदित्य- चरितः प्रायः सर्वाख्यानसमाचितः । सृष्ट्यादिलक्षणी- [] येतः शास्त्रसर्वसरूपकः । पुस्तलेखकलेखानां लक्षणञ्च ततः परम् । संस्काराणाञ्च सर्वेषां लक्षणञ्चात्र कीर्त्तितम् । पक्षत्यादितिथीनाञ्च कल्पाः सप्त च की- र्त्तिताः । अष्टसाद्याः शेषकल्पाः वैष्णवे प्रर्वणि स्मृताः । शैवे च कामतो भिन्नाः सौरे चान्यकथाचयः । प्रति सर्गाह्वयं पश्चान्नानाख्यानसमाचितम् । पुराणस्योप- संहारसहितं षर्व पञ्चमम् । एषु पञ्चषु पूर्वस्मिन् ब्र- ह्मणो महिमाधिकः” । द्वितीयतृतीयचतुर्थपञ्चमपर्वसु “धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च । द्वि- तीये च तृतीये च सौरो वर्गचतुष्टये । प्रतिसर्गा- ह्वयं त्वान्त्यं प्रोक्तं सर्वकथाचितम् । एतत् भविष्यं निर्दिष्टं पर्ब व्यासेन धीमता । चतुर्दशसहन्तु पुराणं परिकीर्त्तितम् । भविष्यं सर्वदेवानां साम्यं यत्र प्रकी- र्त्तितम् । गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः” । तत्फलश्रुतिः । “तल्लिखित्वा तु यो दद्यात् पौष्यां विद्वान् विमत्सरः । गुडधेनुयुतं हेमवस्त्रमाल्यविभू- षणैः । वाचकं पुस्तकञ्चापि पूजयित्वा विधानतः । गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम् । यो वै जितेन्द्रियो भूत्वा सोपबासः समाहितः । अथ वा यो नरो भक्त्या कीर्त्तयेच्छृणुयादपि । स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम् । योऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम् । पठेद्वा शृणुयाच्चैतौ मुक्तिभुक्तिञ्च विन्दतः” । ४ (चालता) फलमेदे राजनि० । तान्तं ५ जले निघण्टुः । भविष्यत्त्वञ्च वर्त्तमानप्रागभावप्रतियोगित्व- मिति नैयायिकाः पदार्थस्य अनागतावस्थाभेद इति सांख्यादयः । ४ हरिवंशपर्वभेदे न० ।
📄 मूल मुद्रित पृष्ठ (4647-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
भविष्यत्, त्रि, (भू + ऌटः शतृस्यट् च ।) काल- विशेषः । तस्य लक्षणम् ॥ वर्त्तमानप्रागभाव- प्रतियोगित्वम् । इति सारमञ्जरी ॥ वर्त्तमान- कालोत्तरकालीनोत्पत्तिकत्वम् । इति शिरो- मणिकृतपदार्थटीकाखण्डनम् ॥ तत्पर्य्यायः । अनागतम् २ श्वस्तनम् ३ प्रगेतनम् ४ वर्त्स्यत् ५ वर्त्तिष्यमाणम् ६ आगामि ७ भावि ८ । इति राजनिर्घण्टः ॥ अद्यतने भव्ये डी दूरभव्ये ती । इति सांप्रदायिकः । यथा श्वो भविता वर्षान्तरे भविष्यति । इति दुर्गादासः ॥
📄 मूल मुद्रित पृष्ठ (3-488-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬