🕉️ 27 November 2026, Friday · 11:06:42 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

भीष्मरत्न
bhīṣmaratna
🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
भीष्मरत्न हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषे । तस्योत्पत्त्यादि यथा “सूत उवाच । “हिमवत्यु- त्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य । सम्प्राप्तमुत्त- मानामाकरतां भीष्मरत्नानाम् । शुक्लाः शङ्खाब्जनिभाः श्योनाकसन्निभाः प्रभावन्तः । प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः । हिमाद्रिप्रतिबद्धं शुद्धमपि श्रद्धया विधत्ते यः । भीष्ममणिं ग्रीवादिषु स सम्पद सर्वदा लभते । प्रणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव! । विधाणि तानि नश्यन्ति सर्वाण्येव महीतले । विषमा न धाधन्ते ये तमरण्यनिवासिनः समीपेऽपि । द्वीपि वृकशरभकुञ्जरसिंहधादयो हिंस्वाः । तस्योत्कबलित कृतिनो पवन्ति भयं न चापि समुपस्थितम् । भीष्म- [] मणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गलित्रितयः । पितृतर्पणे पितृणां तृप्तिर्बहुर्वार्षिकी भवति । शाम्यन्त्युद्भूता- न्यपि सर्पाण्डजाखुवृश्चिकविषाणि । सलिलाग्निवैरि तस्करभयानि भीमानि नश्यन्ति । सैबलयलाहकाभं परुषं पीतप्रमं प्रभाहीनम् । भलिनद्यतिं विवर्ण्णं दूरात् परिवर्जयेत् पाज्ञः । मूल्यं प्रकल्प्यमेषां विबुध- वरैर्देशकालविज्ञानात् । दूरे भूतानां बहु किञ्चिन्निकटप्र- सूतानाम्” गारुडे ७६ अ० । भीष्ममण्यादयोऽप्यत्र ।
📄 मूल मुद्रित पृष्ठ (4674-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
भीष्मरत्नं, क्ली, (भीष्मं भयानकं रत्नं दुर्लभत्वात् ।) हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषः । तस्योत्पत्त्यादि यथा, -- सूत उवाच । “हिमवत्युत्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य । सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥ शुक्लाः शङ्खाब्जनिभाः श्योनाकसन्निभाः प्रभावन्तः । प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः । हिमाद्रिप्रतिबद्धं शुद्धमपि श्रद्धया विधत्ते यः । भीष्ममणिं ग्रीवादिषु स सम्पदं सर्व्वदा लभते ॥ गुणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव ! । विषाणि तानि नश्यन्ति सर्व्वाण्येव महीतले ॥” विषमानाबाधन्ते ये तमरण्यनिवासिनः समी- पेऽपि । द्वीपिवृक्षशरभकुञ्जरसिंहव्याध्रादयो हिंस्राः ॥ तस्योत्कवलितकृतिनो भवन्ति भयं न चापि समुपस्थितम् । भीष्ममणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गुलित्रितयः । पितृतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति ॥ शाम्यन्त्युद्भूतान्यपि सर्पाण्डजाखुवृश्चिक- विषाणि । सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥ [] सैबलबलाहकाभं परुषं पीतप्रभं प्रभाहीनम् । मलिनद्युतिं विवर्णं दूरात् परिवर्जयेत् प्राज्ञः ॥ मूल्यं प्रकल्प्यमेषां विबुधवरैर्देशकालविज्ञानात् । दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम् ॥” इति गारुडे भीष्मरत्नपरीक्षा नाम ७६ अः ॥
📄 मूल मुद्रित पृष्ठ (3-517-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬