भुवनकोष पु० भुवनस्य कोष इव । १ भूगोले २ ज्योतिषग्रन्य- भेदे च । पुराणसर्वपो विष्णु पु० तद्वर्णन यथा “रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । मनमुद्सरि- च्छैला तावती पृथिवी स्मृता । यावत्प्रामाखा पृथिवी विस्तारपरिमण्डला । नभस्तावत्प्रमाणं वै विस्तार- प्ररिमण्डलम् । भूमेर्योजनत्रक्षे तु सौरं मैत्रेय! मण्ड- लम् । लग्ने दिवाकरफापि मण्डलं शशिनः स्मृतम् । पूर्णे शतसहस्रे तु योजनानां निशाकरात् । नक्षत्र मण्डलं कृत्स्नमुपरिष्टात् प्रकाशते । द्विमक्षे चोत्तरे ब्रह्मन्! बुधो नक्षत्रमण्डलात् । तावत्प्रामाणभावे तु बुधस्याप्युशना स्थितः । अङ्गारकोऽपि शुक्रस्य तत्- प्रमाणे व्यवस्थितः । तक्षद्वयेन भौमस्य स्थितो देव [] पुरोहितः । सौरिर्वृहस्पतेश्चोर्द्धं द्विलक्षे समवस्थितः। सप्तर्षिमण्डल तस्मल्लक्षमेकं द्विजोत्तम । ऋषिभ्यस्तु सहस्राणां शताद्वर्द्धं व्यवस्थितः । मधीभूतसमस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । त्रैलोक्यमेतत् कथितसत्स- धेन महामुने! । इज्याफलस्य भूरेषा इज्या चात्र प्रति- ष्ठिता । ध्रुवादूर्द्धं महर्लोको यत्र ते कल्पवासिनः । एका योजनकोटी तु महर्लोको विधीवते । द्वे फोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः । सनन्द- नाद्याः कथिता मैत्रेनामलचेतसः । चतुगुर्णोत्तरे चोर्द्धं जनलोकात्तपः स्मृतः । वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः । षडुगुणेन तपोलोकात् सत्य- लोको विराजते । अपुनर्मारकायत्र ब्रह्मलोको हि स स्मृतः । पादगम्यन्तु यत किञ्चिद्वस्त्वखि पृथिवीम- यम् । स भूर्लोकः समाख्यातो विस्तारोऽप्य मयोदित । भूमिसूर्य्यान्तरं यत्तु सिद्धादिसुनिसेवितम् । भुवर्लोकस्तु सीऽप्युक्तो द्वितीयोमुनिसत्तम! । ध्रुवसूर्य्यान्तरं यत् तु नियुतानि चतुर्दश । स्वर्लोकः सोऽपि कथिती लोकसंस्थानचिन्तकैः । त्रैलोक्यमेतत् कृतकं मैत्रेय! परि- पठ्यते । जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् । कृतकाकृतकोमध्ये महर्लोक इति श्रुतिः । शून्यो भवति कल्पान्ते योऽत्यन्तं न विनश्यति । एते सप्त- मया लोका मैत्रैय! कथितास्तव । पातालानि च सप्तैव ब्रह्माण्डस्यैव विस्तरः । एतदण्डकटाहेन तिर्य्यक् चोर्ध्वमधस्तथा । कपित्थस्य यथा वीजं सर्वतो वै समा- वृतम् । दशीत्तरेण पयसा मैत्रेयाण्डञ्च तद्वृतम् । सर्वोऽम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः । वह्निश्च वायुना, वार्युमैत्रेय! नभसावृतः । भूतादिना नभः सो- ऽपि महता परिवारितः । दशोत्तराण्यशेषाणि मैत्रे- यैतानि सप्त वै । महान्तञ्च समावृत्य प्रधानं सभव- स्थितम् । अनन्तस्य न तस्यान्तः संख्यानं वापि विद्यते” । भाग० ५ । १६ । १८ अ० विस्तरो दृश्यः ।
📄 मूल मुद्रित पृष्ठ (4677-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।