भूतृणं, क्ली, (भुवस्तृणम् ।) गन्धतृणम् । गन्धस्वड इति भाषा । तत्पर्य्यायः । गन्धखेडम् २ रौहि- षम् ३ गोमयप्रियम् ४ । इति रत्नमाला ॥ पटम् ५ रामकर्पूरम् ६ सत्तृणम् ७ शरम् ८ श्याम- कम् ९ ध्यामकम् १० पौरम् ११ देवजग्धकम् । इति रत्नमालान्तरम् ॥ (यथास्य पर्य्यायः । “गुह्यबीजन्तु भूतीकं सुगन्धं जम्बुकप्रियम् । भूतृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
भूतृणः, पुं, (भुवस्तृणः ।) भूस्तृणम् । सुगन्ध रोहिष इति परिमलदगङ्गनि च अन्ध्रदेशे प्रसिद्धः । तत्पर्य्यायः । रोहिषः २ भूतिः ३ भूतिकः ४ कुटुम्बकः ५ मालातृणः ६ समालम्बी ७ छत्रः ८ अतिच्छत्रकः ९ गुह्यबीजः १० सुगन्धः ११ गुच्छालः १२ पुंस्त्वविग्रहः १३ वधिरः १४ अतिगन्धः १५ शृङ्गरोहः १६ करे- न्दुकः १७ । अस्य गुणाः । कटुत्वम् । तिक्त- त्वम् । वातसमूहभूतग्रहावेशदारुणविषदोष- नाशित्वञ्च । इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (3-532-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।