🕉️ 20 November 2026, Friday · 03:04:58 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

भैमी
bhaimī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
भैमी संज्ञा स्त्री॰ [सं॰]
१. माघ शुक्ल एकादशी ।
२. भीम राजा की कन्या । दमयंती ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
भैमी f. Bhīma's daughter i.e. Damayantī, ib., (˚मी-परिणय n. ‘D˚'s wedding’, N. of a drama)
N. of the 11th day in the light half of Māgha and a festival kept on it (= भीमैकादशी), W.
of a grammar.
📄 मूल मुद्रित पृष्ठ (767,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
भैमी, स्त्री, (भीमेनोपासिता भीमस्य इयं वेति । भीम + अण् ङीप् ।) भीमैकादशी । यथा, अथ भैमी । विष्णुधर्म्मोत्तरे । “मृगशीर्षे शशधरे माधे मासि प्रजापते ! । एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः । द्वादश्यां षट्तिलाचारं कृत्वा पापात् प्रमुच्यते ॥ तिलस्नायी तिलोद्वर्त्ती तिलहोमी तिलोदकी । तिलस्य दाता भोक्ता च षट्तिली नावसी- दति ॥” मत्स्यपुराणे । “यद्यष्टम्यां चतुर्द्दश्यां द्बादश्यामथ भारत ! । अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् ॥ ततः पुण्यामिमां भीमतिथिं पापप्रणाशि- नीम् । उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् ॥ भीमतिथिं भैमीत्वेन ख्यातां एकादशीम् ॥ इत्येकादशीतत्त्वम् ॥ * ॥ [] अपि च । पितामह उवाच । “माघमासे शुक्लपक्षे सूर्य्यर्क्षेण युता पुरा । एकादशी तथा चैषा भीमेन समुपोषिता ॥ आश्चर्य्यन्तु व्रतं कृत्वा पितॄणामनृणो भवेत् । भीमद्वादशीति विख्याता प्राणिनां पुण्यवर्द्धिनी ॥ नक्षत्रेण विनाप्येषा ब्रह्महत्यादि नाशयेत् । विनिहन्ति महापापं कुनृपो विषयं यथा । कुपुत्त्रस्तु कुलं यद्वत् कुभार्य्या च पतिं यथा । अधर्म्मञ्च यथा धर्म्मः कुमन्त्री च यथा नृपम् ॥ अज्ञानेन यथा ज्ञानं शौचञ्चाशौचता यथा । अश्रद्धया यथा श्राद्धं सत्यञ्चैवानृतैर्यथा ॥ हिमं यथोष्णमादद्यादनर्थञ्चार्थसञ्चयः । यथा प्रकीर्त्तनाद्दानं तपो वै विस्मयाद्यथा ॥ अशिक्षया यथा पुत्त्रो गावो दूरगतेर्यथा । क्रोधेन च यथा शान्तं यथा वित्तमवर्द्धनात् ॥ यथा समीहनाज्ज्ञानं फलानाञ्च यतव्रताः । तथैव पापनाशाय प्रोक्तेयं द्वादशी शुभा ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः । युगपदुपजातानि नहि हन्ति त्रिपुष्करम् ॥ न चापि नैमिषक्षेत्रं कुरुक्षेत्रं प्रभासकम् । कालिन्दी यमुना गङ्गा न रेवा न सरस्वती ॥ न चैव सर्व्वतीर्थानि एकादश्याः समानि च । न दानं न जपो होमो न चान्यसुकृतं क्वचित् ॥ एकतः पृथिवीदानमेकतो हरिवासरः । ततोऽप्येका महापुण्या इयमेकादशी परा ॥ अस्मिन् वराहवपुषः कृत्वा देहन्तु हाटकम् । घटोपरि नवे पात्रे कृत्वा वै ताम्रभाजने ॥ सर्व्वबीजन्तु ते विप्राः सितवस्त्रावगुण्ठिते । सहिरण्यप्रदीपाद्यैः कृत्वा पूजां प्रयत्नतः ॥ वराहाय नमः पादौ क्रोडाकृति नमः कटिम् । नाभिं गम्भीरघोराय उरःश्रीवत्सधारिणे ॥ बाहुं सहस्रशिरसे ग्रीवां सर्व्वेश्वराय च । मुखं सर्व्वात्मने पूज्य ललाटं प्रभवाय च । केशाः शतमयूखाय पूज्या देवस्य चक्रिणः ॥ विधिना पूजयित्वा तु कृत्वा जागरणं निशि । श्रुत्वा पुराणं देवस्य माहात्म्यप्रतिपादकम् ॥ प्रातर्विप्राय दत्त्वा तु याचकाय शुभाय च । कनकक्रोडसहितं सन्निवेद्य परिच्छदम् ॥ पश्चात्तु पारणं कुर्य्यान्नातितृप्तः सुहृद्वृतः । एवं कृत्वा नरो विप्रा न भूयः स्तनपो भवेत् ॥ उपोष्यैकादशीं पुण्यां मुच्यते वै ऋणत्रयात् । मनोऽभिलषितावाप्तिः कृत्वा सर्व्वव्रतादिकम् ॥” इति गारुडे एकादशीमाहात्म्ये १२७ अध्यायः ॥ (भीमस्य राज्ञः अपत्यं अण् स्त्री । भीमराजनन्दिनी दमयन्ती । यथा, महा- भारते । ३ । ६४ । ११ । “नाबिभ्यत् सा नृपसुता भैमी तत्राथ कस्य- चित् ।”)
📄 मूल मुद्रित पृष्ठ (3-545-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें