भ्रामरं, क्ली, (भ्रमरैः कृतं सम्भृतमिति । भ्रमर + “क्षुद्राभ्रमरवटरपादपादञ् ।” ४ । ३ । ११९ । इति अञ् ।) मधु । इति मेदिनी । रे, १९१ ॥ तत्तु भ्रमरजमधु । तस्य गुणाः । पिच्छलत्वम् । रूक्षत्वम् । मधुरत्वम् । मुखजाड्यनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । पैच्छिल्यात् स्वादु भूयस्त्वात् भ्रामरं गुरु कीर्त्तितम् ।” इति राजवल्लभः । अन्यच्च । “किञ्चित् सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्यीऽलिभि- श्चितम् । निर्म्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् ॥ भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु । स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं हिमम् ॥” इति भावप्रकाशः ॥ नृत्यविशेषः । तत्पर्य्यायः । रासः २ मण्डल- नृत्यम् ३ हल्लीसम् ४ । इति शब्दमाला ॥ भ्रमरसम्बन्धिनि त्रि । यथा, -- “तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् ।” इति देवीमाहात्म्यम् ॥ (यथा च हारीते प्रथमे स्थाने एकादशेऽध्याये । मध्वर्थे लक्षणं गुणाश्च । “शीतं कषायं मधुरं लघु स्यात् सन्दीपनं लेखनमेव शस्तम् । संशोधनन्तु व्रणशोधबञ्च संरोपणं हृद्यतमञ्च बल्यम् ॥ त्रिदोषनाशं कुरुते च पुष्टिं कासे क्षये वा क्षतजे च छर्द्दौ । हिक्काभ्रमे शोषसपीनसानां रक्तप्रमेहे च तथातिसारे ॥ रक्तातिसारे च सरक्तपित्ते तृण्मोहहृत् पार्श्वगदेऽपि शस्तम् । नेत्रामये वा ग्रहणीगदे वा विषे प्रशस्तं भ्रमरैश्चितं यत् ॥” भ्रामरं सघनं जाड्यं भूयिष्ठं मधुरञ्च यत् । रूक्षं विशेषतो ज्ञेयं शीतलं लघुलेखनम् ॥”)
भ्रामरः, पुं, (भ्रामयति लौहमिति । भ्रामि + “अर्त्तिकमिभ्रमिदेवीति ।” उणा० ३ । १३२ । इति अरः । बाहुलकात् दीर्घश्च ।) प्रस्तरभेदः । मेदिनी । रे, १९१ ॥ चुम्बक पातर इति भाषा ॥ (अपस्माररोगः । इनि भ्रामरी त्रि । यथा, मनौ । ३ । १६१ । “भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ॥” “भ्रामरी अपस्मारी ।” इति तद्भाष्ये मेधा- तिथिः ॥)
📄 मूल मुद्रित पृष्ठ (3-559-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।