मङ्गल्या, स्त्री, (मङ्गलाय साधुरिति यत् । टाप् ।) मल्लिकागन्धयुक्तागुरु । इत्यमरः । २ । ६ । १२७ ॥ शमी । अधःपुष्पी । मिसी । शुक्लवचा । रोचना । इति मेदिनी । ये, १०० ॥ प्रियङ्गुः । शङ्खपुष्पी । इति हेमचन्द्रः ॥ माषपर्णी । जीवन्ती । ऋद्धिः । वचा । हरिद्रा । चीडा । इति राजनिर्घण्टः ॥ दूर्व्वा । इति रत्नमाला ॥ दुर्गा । यथा, -- “शोभनानि च श्रेष्ठानि या देवी ददते हरे । भक्तानामार्त्तिहरणी मङ्गल्या तेन सा स्मृता ॥” इति देवीपुराणे ४४ अध्यायः ॥ (वचार्थे पर्य्यायो यथा, -- “तीक्ष्णोग्रगन्धा जटिला मङ्गल्या विजया वचा । षड्ग्रन्थोग्रा च रक्षोघ्नी सिता हैमवती तु सा ॥” मिस्यर्थे यथा, -- “अवाक्पुष्पी च छत्रा स्यान्मङ्गल्या मधुरा मिसी ॥” हेमपुष्पी । तत्पर्य्यायो यथा, -- “अवाक्पुष्पी त्वधःपुष्पी मङ्गल्यामरपुष्पिका ॥” इति च वैद्यकरत्नमालायाम् ॥ रोचनार्थे पर्य्यायो यथा, -- “गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना ।” शम्यर्थे पर्य्यायो यथा, -- “शमी शक्तुफला तुङ्गा केशहन्त्री फला शिवा । मङ्गल्या च तथा लक्ष्मीः शमीरः साल्पिका स्मृता ॥” मसूरः । तत्पर्य्यायो यथा, -- “मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका ।” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
📄 मूल मुद्रित पृष्ठ (3-566-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।