मह, पूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) महति । इति दुर्गादासः ॥
मह, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।) इ क, मंहयति । त्विषि दीप्तौ । इति दुर्गादासः ॥
मह, इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) इ, मंह्यते । ङ, मंहते । इति दुर्गादासः ॥
मह, त् क पूजे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) महयति । इति दुर्गादासः ॥
महः, पुं, (मह्यते पूज्यतेऽस्मिन्निति । मह + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । मह + अच् इत्युज्ज्वलदत्तः । ४ । १८८ ।) उत्सवः । इत्यमरः । १ । ७ । १८८ ॥ (यथा, माघे । ६ । १९ । “न खलु दूरगतोऽप्यतिवर्त्तते महमसाविति बन्धुतयोदितैः ॥” महते पूज्यते इति ।) तेजः । इति मेदिनी । हे ७ ॥ यज्ञः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ७१ । १८ । “तस्मात् प्रावृषि राजानः सर्व्वे शक्रं मुदा युताः । महैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ॥”) महिषः । इति हेमचन्द्रः ॥ (त्रि, महत् । यथा, ऋग्वेदे । १० । ९१ । ८ । “महे वृणते नान्यं त्वत् ॥” “महे महति ।” इति तद्भाष्ये सायङः ॥)
महः, [स्] क्ली, (मह्यते पूज्यतेऽस्मिन्निति । मह + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) उत्सवः । (मह्यते पूज्यते इति । मह + असुन् ।) तेजः । इति मेदिनी । से, ३० ॥ (यथा, रघुटीकारम्भे मल्लिनाथः । “अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥” मह्यन्ते पूज्यन्ते देवादयोऽस्मिन्निति । मह + असुन् ।) यज्ञः । इति शब्दरत्नावली ॥ (उद- कम् । इति निघण्टुः । १ । १२ ॥ पूज्यमाने, त्रि । यथा, वाजसनेयसंहितायाम् । २० । ६ । “जिह्वा मे भद्रं वाङ्महो मनो मन्युः स्वरात् भामः ॥” “वाक् वागिन्द्रियं महः पूज्यमानास्तु ।” इति तद्भाष्ये महीधरः ॥ महति । यथा, ऋग्वेदे । ८ । २३ । १६ । “महो राये तमुत्वा समिधीमहि ।” “महो महते राये धनाय ।” इति तद्भाष्ये सायङः ॥)
📄 मूल मुद्रित पृष्ठ (3-652-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।