माल्यवान्, [त्] पुं, (माल्य + मतुप् । मस्य वः ।) पर्व्वतविशेषः । इत्यमरः । २ । ३ । ३ । माल्यं मालाकारता विद्यतेऽत्र माल्यवान् वतु । इति तट्टीकायां भरतः ॥ स च केतुमालेलावृत- वर्षयोः सीमापर्व्वतः । नीलनिषधपर्व्वतपर्य्यन्त- विस्तारः । इति सिद्धान्तशिरोमणिः ॥ (यथा, महाभारते । ३ । १५८ । ३५ । “उपतस्थुर्महाभागा माल्यवन्तं महागिरिम् ।”) राक्षसविशेषः । स च सुकेशराक्षसात् ग्रामणी- नामकगन्धर्व्वस्य कन्यायां देववत्यां जातः । अस्य भ्राता सुमाली तस्य कन्यायां निकषायां पुलस्त्य- पुत्त्रविश्रवसो रावणो जातः । इति रामायणे उत्तरकाण्डे ५ सर्गः ॥ (मालाविशिष्टे, त्रि । यथा, महाभारते । १ । १७१ । ३१ । “शिरोरुहेषु जग्राह माल्यवतसु धनञ्जयः ।” [] स्त्रियां ङीप् । नदीभेदः । यथा, रामायणे २ । ५६ । ३५ । “सुरम्यमासाद्य तु चित्रकूटं नदीञ्च तां माल्यवतीं सुतीर्थाम् । ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥”)
📄 मूल मुद्रित पृष्ठ (3-717-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।