मीमांसकः, पुं, (मीमांसामधीते वेद वेति । मीमांसा + “क्रमादिभ्यो वुन् ।” ४ । २ । ६१ । इति वुन् ।) मीमांसाशास्त्रवेत्ता । तत्पर्य्यायः । सिद्धान्ती २ । इति जटाधरः ॥ मीमांसा- शास्त्राध्येता च । (विषयोऽस्य यथा, -- [] “द्रव्यत्वं तमसोऽपि शोभनधियां मीमांसकानां मतम् ।” छायायास्तमसश्चापि सम्बन्धात्गुणकर्म्मणोः । द्रव्यत्वं केचिदिच्छन्ति मीमांसकमताश्रयाः ॥” इति वैद्यकराजबल्लभकृतवादार्थदर्पणे प्रथम- श्लोके ॥) पूर्व्वमीमांसासूत्रकर्त्ता जैमिनिः । वृत्तिकर्त्ता कुमारिलभट्टः । भाष्यकर्त्ता शवरस्वामी । प्रभाकरः कुमारिलभट्टस्य छात्रः । स एव गुरुत्वेन भण्यते । तन्मतं गुरुमतम् तच्छिष्याः प्राभाकराः । अतएव स्मार्त्तभट्टाचार्य्येण प्राभा- करैरभिहितमित्युक्तम् । उत्तरमीमांसासूत्र- कर्त्ता वेदव्यासः । तस्य भाष्यकर्त्ता शङ्करा- चार्य्यः । स च अद्वैतवादी । रामानुजः विशिष्टा- द्वैतवादी । माध्वः द्बैतवादी च ॥ (यथा, भक्तिरसामृतसिन्धौ । १ । १ । ३ । “मीमांसको बडवाग्नेः कठिनामपि कुण्ठयन्नसौ जिह्वाम् ॥”)
📄 मूल मुद्रित पृष्ठ (3-727-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।