मूषा, स्त्री, (मूषति गृह्णातीति । मूष + कः + स्त्रियां टाप् ।) स्वर्णाद्यावर्त्तनपात्रम् । मूची इति भाषा ॥ (यथा, पञ्चदश्याम् । ४ । २ । “मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा । रूपादीन्व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् ॥”) तत्पर्य्यायः । तैजसावर्त्तनी २ । इत्यमरः । २ । १० । ३३ ॥ मुषा ३ मुषी ४ आवर्त्तनी ५ मूषी ६ । इति भरतः ॥ “बृहद्भाण्डे तुषैः पूर्णो मध्ये मूषां विधारयेत् । क्षिप्त्वाग्निं मुद्रयेद्भाण्डं तद्भाण्डं पुटसुच्यते ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥) मूषिका ७ । इति रमानाथः ॥ देवताडकः । इति शब्दचन्द्रिका ॥ मूषिकस्त्रीजातिः । इति शब्दरत्नावली ॥ गवाक्षः । यथा, -- “एकद्वित्र्यादिमूषावहनभितिमहो ब्रूहि मे भूमिभर्त्तु- र्हर्म्म्ये रम्येऽष्टमूषे चतुरविरचिते श्लक्ष्णशाला- विशाले ।” इत्यादि लीलावत्यां श्रेढीव्यवहारः ॥
📄 मूल मुद्रित पृष्ठ (3-764-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।