मेनका, स्त्री, (मन्यते इति । मन् + “मनेराशिषि च ।” इति वुन् । ततः “नशिमन्योरलिट्येत्वं वक्तव्यम् ।” ६ । ४ । १२० । इत्यत्र काशिकोक्त्या अकारस्य एत्वम् ।) सर्व्वेश्या । इति शब्दरत्ना- वली ॥ तस्याः कन्या शकुन्तला । यथा, -- “विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद्भगवान् कण्बो वीर ! किं करवाम ते ॥” इति श्रीभागवते । ९ । २० । १३ ॥ (मेनैव । मेना + स्वार्थे कन् ।) उमामाता । यथा, “ततः प्रीतास्तु पितरस्तां ददुस्तनयां निजाम् । मेनां देवाश्च शैलाय हिमयुक्ताय वै ददुः ॥ तां मेनां हिमवाँल्लब्ध्वा प्रसादाद्दैवतेष्वथ । प्रीतिमानभवच्चासौ रराम च यथेच्छया ॥ ततो हिमाद्रिः पितृकन्यया समं सुखं सिषेवे विषयं यथेप्सितम् । अजीजनत् सा तनयास्तु मेना रूपाभियुक्ताः सुरयोषितोपमाः ॥ [] पुलस्त्य उवाच । मेनायां कन्यकास्तिस्रो जाता रूपगुणान्विताः । सुनाभ इति विख्यातश्चतुर्थस्तनयोऽभवत् ॥ नीलाञ्जनचयप्रख्या नीलेन्दीवरलोचना । रूपेणानुपमा काली जघन्या मेनकासुता ॥ जातास्ताः कन्यकास्तिस्रः षडब्दात् परतो मुने ! । कर्त्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः ॥ ततो गते कन्यके द्वे ज्ञात्वा मेना तपस्विनी । तपसो वारयामास उमे त्येवाब्रवीच्च सा ॥ तदैव माता नामास्याश्चक्रे पितृसुता शुभा । उमेत्येव हि कन्यायाः सा जगाम तपोवनम् ॥” इति वामने ७४ -- ७५ अध्यायः ॥ * ॥ अपि च । “कथं गिरिसुता काली बभूव जगतां प्रसूः । दाक्षायणी त्यक्ततनुः कथमाप हरं पतिम् ॥” मार्कण्डेय उवाच । यदात्यजत्तनुं देवी पूर्व्वं दाक्षायणी सती । तदैव मनसागच्छन्मेनकां हिमवद्गिरिम् । त्यक्तप्राणा तदा देवी भूता हिमघतः सुता ॥ शिवाविन्यस्तमनसा सप्तविंशतिवत्सरान् । निनाय मेनका देवी परमामृतिमिच्छती ॥ सप्तविंशतिवर्षन्ते जगन्माता जगन्मयी । सुप्रीता भवदत्यर्थं प्राह प्रत्यक्षतां गता ॥ श्रीदेव्युवाच । यत् प्रार्थितं त्वया देवि ! मत्तस्तत् प्रार्थयाधुना । ततः सा प्रथमं पुत्त्रशतं वव्रे यशस्विनी ॥ पश्चात्तु तनयामेकां स्वरूपगुणशालिनीम् । कुलद्वयानन्दकरीं भुवनत्रयदुर्लभाम् ॥ ततो भगवती प्राह मेनकां मुनिसन्निभाम् ॥ श्रीदेव्युवाच । शतं पुत्त्राः संभवन्तु भवत्या वीर्य्यसंयुताः । सुता च तव देवानां मानुषाणाञ्च रक्षसाम् ॥ हिताय सर्व्वजगतां भविष्याम्यहमेव ते । एवमुक्त्वा जगद्धात्री तत्रैवान्तरधीयत ॥ ततः सा कालिका देवी योगनिद्रा जगन्मयी । पूर्व्वत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ ॥ समयस्यानुरूपेण मेनकाजठरे शिवा । समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ वसन्तसमये देवी नवम्यां मृगयोगतः । अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डलात् ॥” इति कालिकापुराणे ४० अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (3-781-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।