🕉️ 21 November 2026, Saturday · 07:55:04 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

योनिरोग
yoniroga
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
योनि—रोग m. disease of the female organs of generation, Suśr.
📄 मूल मुद्रित पृष्ठ (858,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
योनिरोग पु० ६ त० । षोडशविधे भगरोगभेदे “उदावृत्ता १ तथा वन्ध्या २ विप्लुता ३ च परिप्लुता ४ । वातला ५ योनिजो रोगो वातदोषेण पञ्चधा । पञ्चधा पित्तदोषेण तत्रादौ लोहिताक्षरा १ । प्रस्रंसिनी २ बामनी ३ च पुत्रघ्नी ४ पित्तला ५ तथा । अत्यानन्दा १ कर्णिनी २ च चरणा ३ नन्द- पूर्विका ४ । अतिपूर्वापि ५ सा ज्ञेया श्लेष्मला ५ च कफादिमाः । षण्ड्यण्डिनी १ । २ च विकृता ३ मूचीवक्त्रा ४ त्रिदोषिणी ५ । [] पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः” । अथ तासां लक्षणान्याह “सफेनिलमुदावृत्ता १ रजः कृच्छ्रेण मुञ्चति । बन्ध्या २ निरार्त्तवा ज्ञेया विप्लुता ३ नित्यवेदना । परिप्लु- तायां ४ भवति ग्राम्यधर्भे त्वरा भृशम् । वातला ५ कर्कशा- स्तब्धाशूलनिस्तोदपीडिता । चतसृष्वपि चाद्यासु भवन्त्य- निलवेदनाः” । अनिलवेदनास्तोदादयः वातलायां त्वति वातवेदना बोद्धव्या वातलेत्यन्वयात् । “सदाहं क्षरते रक्तं यस्याः सा लोहिताक्षरा १ । प्रस्रंसिनी २ संसूते च क्षोभिता दुष्प्रजायिनी” । “क्षोभिता विमर्द्दिता स्रंसते स्वस्थानाच्च्यवते दुष्प्रजायिनी दुष्टप्रजननशीला । सतत मुद्गिरेद्वीर्य्यं वामनी ३ रजसा युतम् । स्थितं हि पातयेद्- गर्मं पुत्रघ्नी ४ रक्तसंस्रवात्” । पुत्रशब्दोऽत्रापत्योपलक्षकः । “अत्यर्थं पित्तला ५ योनिर्दाहपाकज्वरान्विता । चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत्” । अत्यानन्दा १ न सन्तोषं ग्राम्यधर्भेण विन्दति । कर्णिन्यां २ कर्णिका योनौ श्लेष्मा- सृग्भ्यां प्रजायते” । कर्णिका मांसस्य कर्णिकाकारो- ग्रन्थिः । “मैथुने चरणा ३ पूर्ब पुरुषादतिरिच्यते । अति- रिच्यते रजोमुञ्चतीत्यर्थः । बहुशश्चातिचरणा ४ तयोर्वीर्य्यं न तिष्ठति” । बहुशः वारंवारमतिरिच्यते तयोः चरणा- तिचरणयोः । “श्लेष्मला ५ पिच्छला योनिः कण्डूयुक्ताति शीतला । चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् । अनार्त्तवाऽस्तनी षण्डी १ खरस्पर्शा च मैथुने” । अस्तनी ईषत्स्तनौ यस्याः सा अत्र लक्ष्या षण्डी । महामेढ्र- गृहीताया बालाया अण्डिनी २ भवेत् । महामेढ्र पुरुषस्तेन ग्रहीतायाः बालायाः मूक्ष्मयोनिच्छिद्रायाः अण्डिनी ३ अण्डवल्लम्बमाना योनिर्भवति” । विवृतां मूची वक्त्राञ्चाह “विवृता ३ च महायोनिः सूचीवक्त्राति ४ संवृता । त्रिदोषजामाह सर्वलिङ्गसमुत्थानं सर्वदोषप्रकीपजम् । चतऌष्वपि च द्यासु सर्वलिङ्गनिदर्शनम्” । अयासाध्यां योनिमाह । “पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः । पञ्च षण्डीप्रभृतयः” अथ योनिकन्दस्य निदानमाह । “दिवास्वप्नादतिक्रोधात् व्यायामादतिमैथुनात् । क्षताच्च नखदन्ताद्यै र्वाताद्याः कुपिता यथा” । यथास्वनिदानं कुपिता वातादाः । रूपभाह “पूयशोणितसङ्काशं लकुचा- कृतिसन्निभम् । जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः” । लकुचाकृतिसन्निभं लकुचाकारं गुडकमत्र विशेष्यं बोघ्यम्” । वातजादिभेदेन रूप्रमाह । “रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् । दाहराग- [] ज्वरयुतं विद्यात्पित्तात्मकं तु तम् । तिलपुष्पप्रतीकाशं कण्डूमन्तं कफा प्रकम् । सर्वलिङ्गसमायुक्तं सन्नि- पातात्मकं वदेत्” ।
📄 मूल मुद्रित पृष्ठ (4782-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
योनिरोगः, पुं, (योनेः रोगः ।) भगगदः ॥ (यथा, सुश्रुते । १ । ४५ । “शूलोदावर्त्तातिसारप्रवाहिकायोनिरोगगर्भ- स्रावरक्तपित्तश्रमक्लमहरम् ॥” * ॥) अस्य निदानादिर्योनिशब्दे द्रष्टव्यः ॥
📄 मूल मुद्रित पृष्ठ (4-066-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "योनिरोग" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें