रक्तसारं, क्ली, (रक्तवर्णः सारोऽस्य ।) रक्त- चन्दनम् । (यथास्य पर्य्यायः । “रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपर्णं रक्तसारं तत्प्रबालफलं स्मृतम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) पत्तङ्गम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “पत्तङ्गं रक्तसारञ्च सुरङ्गं रञ्जनन्तथा । पट्टरञ्जकमाख्यातं पत्तूरञ्च कुचन्दनम् ॥”) इति भावप्रक्राशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
रक्तसारः, पुं, (रक्तः सारो यस्य ।) अम्लवेतसः । रक्तखदिरः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “खदिरो रक्तसारश्च गायत्त्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ रक्ते सारो यस्येति । शोणितसारयुक्ते, त्रि । यथा, बृहत्संहितायाम् । ६८ । ९७ । “ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकर- चरणैः । रक्तैस्तु रक्तसारा बहुसुखवनितार्थपुत्त्रयुताः ॥”)
📄 मूल मुद्रित पृष्ठ (4-077-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।