🕉️ 29 November 2026, Sunday · 03:59:08 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

राजयक्ष्मा
rājayakṣmā
🟠 शब्दसागर🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
राजयक्ष्मा संज्ञा पुं॰ [सं॰ राजयक्ष्मनू] क्षयी । यक्ष्मा । क्षय रोग । तपेदिक । विशोष दे॰ क्षय ।
राजयक्ष्मा वि॰ [सं॰ राजयक्ष्मिनू] जिसे राजयक्ष्मा रोग हुआ हो । क्षय रोग से पीड़ित ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
राजयक्ष्मा, [न्] पुं, (राज्ञश्चन्द्रस्य क्षयकारको यक्ष्मा । राजा चासौ यक्ष्मा चेति वा ।) क्षयरोगः । इति हेमचन्द्रः ॥ अस्य पर्य्याय- निदानौषधादयो यक्ष्मशब्दे द्रष्टव्याः ॥ * ॥ (असौ हि सर्व्वरोगाणामाकरः । यथा, माघे । २ । ९६ । “मावेदि यदसावेको जेतव्यश्चेदिराडिति । राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥” “तथाह वाग्भटः । अनेकरोगानुगतो बहुरोगपुरःसरः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ नक्षत्राणां द्विजानाञ्च राज्ञोऽभूत् यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥” इति तट्टीकायां मल्लिनाथः ॥) महापातकजचिह्नमप्ययम् । यथा, विष्णुः । अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि भवन्ति । कुष्ठ्यतिपातकी ब्रह्महा यक्ष्मी सुरापः श्यावदन्तकः सुवर्ण- हारी कुनखी गुरुतल्पगो दुश्चर्म्मा । इत्यादि कूर्म्मपुराणम् ॥ “क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम् ॥” महारोगिणः पापरोगाष्टकान्यतमरोगवतः । ते च उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधु- मेहो भगन्दरः उदरोऽश्मरी इत्यष्टौ पाप- रोगा नारदोक्ताः । इति शुद्धितत्त्वम् ॥ * ॥ तस्योत्पत्तिरूपस्थानानि यथा, -- “अथ कोपवतस्तस्य दक्षस्य सुमहात्मनः । [] निश्चक्राम तदा यक्ष्मा नासिकाग्राद्विभीषणः ॥ दंष्ट्राकरालवदनः कृष्णाङ्गारसमप्रभः । अतिदीर्घः स्वल्पकेशः कृशो धमनिसन्ततः ॥ अधोमुखो दण्डहस्तः कासं विश्रम्य सन्ततम् । कुर्व्वाणो निम्ननेत्रश्च योषासम्भोगलोलुपः ॥ स चोवाच तदा दक्षं कुत्र स्थास्याम्यहं मुने ! । किंवा चाहं करिष्यामि तन्मे वद महामते ॥ ततो दक्षस्तु तं प्राह सोमं यातु द्रुतं भवान् । सोममत्तु भवान्नित्यं सोमे त्वं तिष्ठ स्वेच्छया ॥ मार्कण्डेय उवाच । इति तस्य वचः श्रुत्वा दक्षस्याथ महात्मनः । शनैः शनैस्ततः सोममाससाद स च द्रुतम् ॥ असाद्य स तदा सोमं वल्मीकं पन्नगो यथा । प्रविवेशेन्दुहृदये छिद्रं प्राप्य महागदः ॥ तस्मिन् प्रविष्टे हृदये दारुणे राजयक्ष्मणि । शुशोच चन्द्रस्तन्द्रीञ्च विषमां प्राप्तवांस्ततः ॥ उत्पत्य प्रथमं यस्माल्लीनो राजन्यसौ गदः । राजयक्ष्मेति लोकेऽस्मिंस्तस्य ख्यातिरभूत् द्विजाः ॥ ततस्तेनाभिभूतश्च यक्ष्मणा रोहिणीपतिः । क्षयं जगामानुदिनं ग्रीष्मे शुष्का नदी यथा ॥ तथा चन्द्रे क्षीयमाणे सर्व्वौषध्यः क्षयं गताः । क्षयं जातास्वोषधीषु न यज्ञः संप्रवर्त्तते ॥ यज्ञाभावात्तु देवानामन्नं सर्व्वं क्षयं गतम् । पर्य्यण्याश्च ततो नष्टास्ततो वृष्टिर्न चाभवत् । वृष्ट्यभावे तु लोकानामाहारो क्षीणताङ्गतः ॥ दुर्भिक्षव्यसनोपेते सर्व्वलोके द्विजोत्तमाः । दानधर्म्मादिकं किञ्चिन्न लोकेषु प्रवर्त्तते ॥ सत्त्वहीनाः प्रजाः सर्व्वा लोभेनोपहतेन्द्रियाः । पापमेव तदा चक्रुर्न धर्म्मरुचयस्तथा ॥ एतद्दृष्ट्वा तदा भावं दिक्पालाः सपुरन्दराः । जग्मुः क्षोभं परं देवाः सागराश्च ग्रहास्तथा ॥ ततो दृष्ट्वा जगत् सर्व्वं व्याकुलं दस्युपीडितम् । ब्रह्माणमगमन्देवाः सर्व्वे शक्रपुरोगमाः ॥ उपसङ्गम्य लोकेशं स्रष्टारं जगतां पतिम् । प्रणम्याथ यथायोग्यमुपविष्टास्ततः सुराः ॥ तान् म्लानवदनान् वीक्ष्य ब्रह्मा लोकपितामहः । अभिभूतान् परेणैव हृतस्वविषयानिव । पप्रच्छ सुमुखीकृत्य गुरुमिन्द्रं हुताशनम् ॥ ब्रह्मोवाच । स्वागतं भोः सुरगणाः किमर्थं यूयमागताः । दुःखोपहतदेहांश्च युष्मान् म्लानांश्च लक्षये ॥ निराधारान् निरातङ्कान् सुरान् सर्व्वांस्तु कामगान् । कृत्वा स्वविषये न्यस्तान् कथं पश्यामि दुष्खि- तान् ॥ यद्बभूवे दुष्खबीजं युष्मान् वा यस्तु बाधते । तत् कथ्यतामशेषेण सिद्धिं चाप्यवधार्य्यताम् ॥ मार्कण्ड
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "राजयक्ष्मा" आता है (8)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬