🕉️ 25 November 2026, Wednesday · 04:55:16 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

राशिचक्र
rāśicakra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
राशिचक्र संज्ञा पुं॰ [सं॰] मेष, वृष, मिथुन आदि राशियों का चक्र या मंडल । ग्रहों के चलने का मार्ग या वृत्त । भचक्र । विशेष दे॰ राशि ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
राशि—चक्र n. the zodiacal circle, zodiac, Col.
N. of a partic. mystical circle, Cat.
📄 मूल मुद्रित पृष्ठ (879,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
राशिचक्र न० राशिथटितं चक्रं वृत्तम् । मेषादिद्वादश- राशियुक्ते गोलाकारे वायुवशेन पूर्वतः पश्चात् अनिशं बंभ्रम्यमाणे ज्योतिर्मये “सप्तविंशतिभिर्ज्योतिश्चक्रं स्ति- मितवायुगम्” इत्युक्ते ज्योतिश्चक्रे खगोलशब्दे दृश्यम् मन्त्रशुद्ध्यङ्गराशिचक्रे तच्च चक्रशब्दे २८० पृष्ठे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (4807,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
राशिचक्रं, क्ली, (राशीनां चक्रम् ।) मेषादि- द्वादशराश्यादियुक्तवृत्तम् । तस्य नामान्तरं भचक्रं ज्योतिषचक्रञ्च । यथा, -- “सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितवायुगम् । तदर्कांशो भवेदाशिर्नवर्क्षचरणाङ्कितः ॥” इति दीपिका ॥ * ॥ तद्विवरणं यथा, -- “भचक्रं ध्रुवयोर्ब्बद्धमाक्षिप्तं प्रवहानिलैः । पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥ उपरिस्थस्य महतीकक्षाल्पाधःस्थितस्य च । महत्या कक्षया भागा महान्तोऽल्पास्तथा- ल्पया ॥ कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः । ग्रहः कालेन महता मण्डले महति भ्रमन् ॥ खल्पया तु बहून् भुङ्क्ते भगणान् शीत- दीधितिः । महत्या कक्षयागच्छन् ततः स्वल्पः शनैश्चरः ॥ मन्दादधःक्रमेण स्युश्चतुर्था दिवसाधिपाः । वर्षाधिपतयस्तद्वत् तृतीयाः परिकीर्त्तिताः ॥ ऊर्द्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः । [] होरेशाः सूर्य्यतनयादधोधः क्रमशस्तथा । भवेद्भकक्षा तीग्मांशोर्भ्रमणं षष्टिताडितम् । सर्व्वोपरिष्टात् भ्रमति योजनैस्तैर्भमण्डलम् ॥” तत्र कक्षाक्रममाह । “ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा ॥ मन्दामरेज्यभूपुत्त्रसूर्य्यशुक्रेन्दुजेन्दवः । परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः ॥” इति सूर्य्यसिद्धान्तः ॥ * ॥ ग्रहत्रयचन्द्रसंयोगे फलविशेषजनकं राशिचक्रं यथा, -- “राशिचक्रं प्रवक्ष्यामि नृपाणां हितकाम्यया ॥ रविर्जीवस्तथा सौम्यस्तैश्च चन्द्रे समागते । जलपातो भवेत् सत्यमित्युक्तं विष्णुयामले ॥ रविर्जीवस्तथा शुक्रस्तैश्च चन्द्रे समागते । वायुपातो भवेत् सत्यमित्युक्तं विष्णुयामले ॥ रविर्ज्जीवस्तथा भौमस्तैश्च चन्द्रे समागते । अग्निपातो भवेत् सत्यमित्युक्तं ब्रह्मयामले ॥ रविर्भौमस्तथा राहुस्तैश्च चन्द्रे समागते । लोहपातो भवेत् सत्यमित्युक्तं रुद्रयामले ॥ रवी राहुस्तथा केतुस्तैश्च चन्द्रे सगागते । पाषाणपातोऽपि भवेदित्युक्तं भानुयामले ॥” इति नरपतिजयचर्य्यायां तुम्बुरुचक्रे राशि- चक्रम् ॥ * ॥ जातकराशिचक्रम् । यथा, -- “तन्वादिव्ययपर्य्यन्तं राशिचक्रे व्यवस्थितम् । तन्न बुद्ध्वाल्पमतयो जल्पयन्ति वृथा वृथा ॥” इति पञ्चस्वरा ॥ * ॥ मन्त्रग्रहणोक्तराशिचक्रम् यथा । आगमकल्प- द्रुमे । “रेखाद्वयं पूर्व्वपरागतं स्यात् तन्मध्यतो याम्यकुवेरभेदात् । एकैकमीशाननिशाचरे तु हुताशवाय्वोर्विलिखेत्ततोऽर्णान् ॥ वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान् पञ्चेषुवाणशरपञ्चचतुष्टयार्णान् । मेषादितः प्रविलिखेत् सकलांस्तु वर्णान् कन्धागतान् प्रविलिखेदथ शादिवर्णान् ॥” तथा, -- “बालं गौरं खुरं शोणं शमी शोभेति राशिषु । क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृताः ॥” तेन अ आ इ ई मेषः । उ ऊ ऋ वृषः । ॠ ऌ ॡ मिथुनम् । ए ऐ कर्कटः । ओ औ सिंहः । अं अः श ष स ल क्षाः कन्याः । कवर्गस्तुला । चवर्गो वृश्चिकः । टवर्गो धनुः । तवर्गो मकरः । पवर्गः कुम्भः । यवर्गो मीनः । स्वराशीनामनुकूलं मन्त्रं भजेत् । तथा च । “स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून् ॥” इति वचनात् ॥ “राशीनां शुद्धताज्ञेया त्यजेच्छत्रुं मृतिं व्ययम् । स्वराशेर्मन्त्रराश्यन्तं गणनीयं विचक्षणैः ॥” यदा तु स्वराशेरज्ञानं तदा साधकनामाद्यक्षर- सम्बन्धिनं राशिं गृहीत्वा गणयेत् । [] “साध्याद्यक्षरराश्यन्तं गणयेत् साधकाक्षरम् । इति रामार्च्चनचन्द्रिकाधृतवचनात् । तथा, “अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः ॥” इति तन्त्रराजे ॥ “तेन मन्त्राद्यवर्णेन नाम्नश्चाद्यक्षरेण च । गणयेद्यदि षष्ठं वाप्यष्टमं द्बादशन्तु वा । रिपुर्मन्त्राद्यवर्णः स्यात् तेन तस्याहितं भवेत् ॥ एक पञ्च नव बान्धवाः स्मृताः द्वौ च
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "राशिचक्र" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬