🕉️ 21 November 2026, Saturday · 01:00:01 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

रासमंडल
rāsamaṃḍala
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
रासमंडल संज्ञा पुं॰ [सं॰ रासमण्डल]
१. श्रीकृष्ण के रासक्रीड़ा करने का स्थान ।
२. रासक्रीड़ा करनेवालों का समूह या मंडली ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
रास—मण्डल n. Kṛṣṇa's circular dancing ground, BhP.; Pañcar.
📄 मूल मुद्रित पृष्ठ (879,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
रासमण्डल न० रासार्थं शृङ्खलावन्धवत् द्वयोर्द्वयोमध्य- स्थित्या क्रीडाभेदार्थं मण्डलं मण्डलाकारेण भ्रमणं यत्र । १ गोलोकस्थे रासक्रीडाधारस्थाने । तत्रत्य म- ण्डलप्रमाणञ्च ब्रह्मवै० जन्मख० ८४ अ० । श्रीकृष्णस्य तदुत्सवाङ्गे २ मण्डपभेदे च ।
📄 मूल मुद्रित पृष्ठ (4807,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
रासमण्डलं, क्ली, (रासस्य मण्डलम् ।) श्रीकृष्णस्य रासक्रीडास्थलम् । तद्विवरणम् । यथा, -- “तस्मादुपरि गोलोकः पञ्चाशत्कोटियोजने । वायुना धार्य्यमाणश्च विचित्रपरमाश्रयः ॥ अतीवरम्यनिर्म्माणो नित्यरूपो मदीच्छया । शतशृङ्गेण शैलेन पुण्यवृन्दावनेन च ॥ सुरासमण्डलेनापि नद्या विरजयावृतः । कोटियोजनविस्तीर्णा प्रस्थेन विरजा व्रज ॥ दैर्घ्ये तस्य शतगुणा परितः परमा शुभा । अमूल्यरत्ननिकरा हीरामाणिक्ययोस्तथा ॥ मणीनां कौस्तुभादीनामसंख्यानां मनोहरा । अमूल्यरत्ननिर्म्माणं तत्रापि प्रतिमन्दिरम् ॥ मनोहरञ्च प्राकारमदृष्टं विश्वकर्म्मणा । गोपीभिर्गोपनिकरैर्वेष्टितं कामधेनुभिः ॥ कल्पवृक्षैः पारिजातैरसंख्यैश्च सरोवरैः । पुष्पोद्यानैः सुकोटिभिः संवृतं रासमण्डलम् ॥ वेष्टितं चेष्टितैर्गोपैर्मन्दिरैः शतकोटिभिः । रत्नप्रदीपयुक्तैश्च पुष्पतल्पसमन्वितैः ॥ सुगन्धिचन्दनामोदैः कस्तूरीकुङ्कुमान्वितैः । क्रीडोपयुक्तैर्भोगैश्च ताम्बूलैर्वासितैर्जलैः ॥ धूपैः सुरभिरम्यैश्च माल्यैश्च रत्नदर्पणैः । रक्षकै रक्षितैः शश्वद्राधादासीत्रिकोटिभिः ॥ अमूल्यरत्नाभरणैर्व्वह्निशुद्धांशुकैरपि । लक्षमत्तगजेन्द्राणां वेष्टितैश्च बलैः क्रमात् ॥ नवयौवनसम्पन्नै रूपैर्निरुपमैरपि । रम्यञ्च वर्त्तुलाकारं चन्द्रविम्बं यथा व्रज ॥ अमूल्यरत्नरचितं दशयोजनविस्तृतम् । कस्तूरीकुङ्कुमै रम्यैः सुगन्धिचन्दनार्च्चितैः ॥ आवृतं मङ्गलघटैः फलपल्लवसंयुतैः । दधिलाजैश्च पर्णैश्च स्निग्धदूर्व्वाङ्कुरैः फलैः ॥ श्रीरामकदलीस्तम्भैरसंख्यैश्च मनोहरैः । पट्टसूत्रनिबद्धैश्च स्निग्धैश्चन्दनपल्लवैः ॥ चन्दनासक्तमाल्यैश्च भूषणैश्च विभूषितम् । [] अमूल्यरत्नरचितं शतशृङ्गं मनोहरम् ॥ कोटियोजनमूर्द्ध्वञ्च दैर्घ्यं दशगुणोत्तरम् । शैलप्रस्थं परिमितं पञ्चाशत्कोटियोजनम् ॥ अतीवकमनीयञ्च वेदेऽनिर्व्वचनीयकम् । प्राकारमिव तस्यापि गोलोकस्य मनोहरम् ॥ परितो वेष्टितं रम्यं हीराहारसमन्वितम् । तत्र वृन्दावनं रम्यं युक्तं चन्दनपादपैः ॥ कल्पवृक्षैश्च रम्यैश्च मन्दारैः कामधेनुभिः । शोभितं शोभनाढ्यञ्च पुष्पोद्यानैर्मनोहरैः ॥ क्रीडासरोवरै रम्यैः सुरम्यै रतिमन्दिरैः । अतीवरम्यं रहसि रासयोग्यस्थलान्वितम् ॥ रक्षितं रक्षकै रम्यैरसंख्यैर्गोपिकागणैः । परितो वर्त्तुलाकारं त्रिलक्षयोजनं वनम् ॥ षट्पदध्वनिसंयुक्तं पुंस्कोकिलरुतान्वितम् । तत्राक्षयवटो रम्यो रहस्येव हि विस्तृतः ॥ सहस्रयोजनोर्ड्घश्च परितश्च चतुर्गुणः । गोपीनां कल्पवृक्षैश्च सर्व्ववाञ्छाफलप्रदः ॥ क्रीडान्वितैरावृतश्च राधादासीत्रिलक्षकैः । विरजातीरनारीणां यमुनाशीतलेन च ॥ पुष्पान्वितेन मान्द्येन पवित्रश्च सुगन्धिना । दासीगणैरसंख्यैश्च वृन्दावनविनोदिनी ॥ तत्र क्रीडति सा राधा मम प्राणाधिदेवता ॥ सेयं श्रीदामशापेन वृषभानुसुताधुना । ब्रह्मादिदेवैः सिद्धेन्द्रैर्मुनीन्द्रैः पूजिता व्रज ॥” इति ब्रह्मवैवर्त्ते भगवन्नन्दसंवादे श्रीकृष्णजन्म- खण्डे ८४ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (4-159-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "रासमंडल" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें