🕉️ 19 November 2026, Thursday · 08:03:15 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

लङ्घन
laṅghana
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
लङ्घन n. the act of leaping or jumping, leaping over, stepping across, crossing, traversing (gen. or comp.), PārGṛ.; R. &c.
one of a horse's paces, curvetting, bounding, L.
(ifc.) rising to or towards, ascending, mounting, attaining, Kālid.
sexual union, impregnating, Daś.
attack, conquest, capture, Kāv.; Pur.
transgression, violation, disdain, neglect, R.; Rājat.
(also f(आ). ) insult, offence, injury, wrong, MBh.; Kāv. &c.
fasting, hunger, starving system, Suśr.
📄 मूल मुद्रित पृष्ठ (895,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
लंघनं [लंघ्-ल्युट्] 1 Leaping, jumping. --2 Going by leaps, traversing, passing over, going, motion in general; यूयमेव पथि शीघ्रलंघनाः Ghaṭ. 8. --3 Mounting, ascending, rising up to (fig. also); नभोलंघन R. 16. 33; जनोयमुच्चैःपदलंघनोत्सुकः Ku. 5. 64 ‘wishing to attain or aspire to a high position.’ --4 Assaulting, storming, capturing; as in दुर्गलंघनं. --5 Exceeding, going beyond, overstepping, violating, transgression; आज्ञालंघनं, नियमलंघनं &c. --6 Disregarding, despising, treating with contempt, slighting; प्रणिपातलंघनं प्रमार्ष्टुकामा V. 3; M. 3. 22. --7 An offence, affront, insult. --8 A harm, an injury; as in आतपलंघनं q. v. --9 Fasting, abstinence; Śi. 12. 25 (where it means ‘leaping’ also). --10 One of the paces of a horse.
📄 मूल मुद्रित पृष्ठ (0922-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
लङ्घन न० लघि० ल्युट् । १ अभोजने, २ अतिक्रम्य गमने, ३ क्रमणे, ४ प्लवने च मेदि० । ५ कर्षणे च भावप्र० लङ्घनस्य लक्षणस्वरूपगुणादिकमुक्तं यथा “ज्वरी लङ्घनं कुर्य्यादित्याह चरको वाग्भटश्च “आमा- शयस्थो हत्वाग्निं सामो मार्गान् पिधापयन् । विद- धाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत्” । तथा “ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम् । ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम् । त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयीजयेत् । दोषोऽपि लङ्घनं पथ्यं मध्ये लङ्घनपाचनम् । प्रभूते शोधनं तच्च मूलादुन्मूलयेन्म- लान्” । चक्रदत्तश्च “तरुणं तु ज्वरं पूर्वं लङ्घनेन क्षयं नयेत् । आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि । वातः पचति सप्ताहात् पित्तन्तु दशभिर्दिनैः । श्लेष्मा- द्वादशभिर्घस्रैः पच्यते वदतांवर! । लङ्घनं लङ्घनीयन्तु कुर्य्याद्दोषानुरूपतः । त्रिरात्रमेकरात्रं वाऽहोरात्रमथ वा ज्वरे । निर्वातसेवनात् स्वेदाल्लङ्घनादुष्णवारिणः । पानादामज्वरे क्षीणे पश्चादौषधमाचरेत्” । आत्रेये- णोक्तम् “ज्वरादौ लङ्घनं प्राक्तं ज्वरमध्ये तु पाच- नम् । ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम् । दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च । लङ्घितश्चाप्य- दोषश्चेत् यवागूपानमाचरेत् । शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत् । पञ्चकोलेन संसिद्धां यवागूं मध्य- लङ्घने । अत्यर्थं लङ्घितं दृष्ट्वा तस्य सन्तर्पणं हितम् । द्राक्षादाडिमखर्जूरपियालैः सपरुषकैः । तर्पणार्हस्य कर्त्तव्यन्तर्पणं ज्वरशान्तये” । अत्र लङ्घनशब्देनानशन- मुच्यते । यत आह सुश्रुतः “आनद्धस्तिमितैर्दोषैर्यावन्तं कालमातुरः । तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत् । आनद्धस्तिमितैर्दोषैः सम्बद्धः । संसर्गम् औषधान्नादि- प्रसङ्गम्” । यत आह चरकः “चतुःप्रकाराः संशुद्धिः पिपासा मारुतातपौ । पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् । चतुःप्रकारा संशुद्धिर्वमनञ्च विरेचनम्” । नि- [] रूहवस्तिशिरोविरेचनानि नत्वनुवासनं तस्य वृंहण- त्वात् । अत्र लङ्घनं कर्षणमित्यर्थः । सुश्रुतः “शरीर- लाघवकरं यद्द्रव्यं कर्म वा पुनः । तं लङ्घनमिति ज्ञेयं वृंहणं तु पृथग्विधम्” । लङ्घनात्कर्षणादन्यत् शरोरपोषकमित्यर्थः” ।
📄 मूल मुद्रित पृष्ठ (4821-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
लङ्घनं, क्ली, (लङ्घ + ल्युट् ।) उपवासः । (यथा, सुश्रुते । १ । ४६ । “तत्रामे लङ्घनं कार्य्यं विदग्धे वमनं हितम् । विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ॥” यथा च । “लङ्घनं बृंहणं काले रूक्षणं स्नेहनन्तथा । स्वेदनं स्तम्भनञ्चैव जानीते यः स वै भिषक् ॥” “तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् । यत्किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥” “लघूष्णतीक्ष्णविषदं रूक्षं सूक्ष्मं खरं सरम् । कठिनञ्चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम् ॥” “--पिपासा मारुतातपौ । पाचनान्युपवासाश्च व्यायामश्चेति लङ्घनम् ॥” “प्रभूतश्लेष्मपित्तास्रमलाः सन्दुष्टमारुताः । बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः ॥” “त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहि- नाम् । शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥” इति चरके सूत्रस्थाने द्वाविंशेऽध्याये ॥ “ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् । क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् ॥ आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा- पयन् । विदधाति ज्वरं दोषस्तदा लङ्घनमाचरेत् ॥ अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् । ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥ प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् । बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥ तत्तु मारुतक्षुत्तृष्णामुखशोषभ्रमान्विते । कार्य्यं न बाले वृद्धे वा न गर्भिण्यां न दुर्ब्बले ॥ वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे । हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते ॥ स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये ॥ कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥ पर्व्वभेदोऽङ्गमर्द्दश्च कासः शोषो मुखस्य च । क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्ब्बल्यं श्रोत्रनेत्रयोः ॥ मनसः सम्भ्रमोऽभीक्ष्णमूर्द्ध्ववातस्तमो हृदि । देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥) क्रमणम् । (यथा, कुमारे । ५ । ६४ । “यथा श्रुतं वेदविदांवर त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥”) प्लवनम् । इति मेदिनी । ने, १२० ॥ अग्नि- लङ्घननिषेधो यथा, -- [] “न चाग्निं लङ्घयेद्धीमान्नोपदध्यादधः क्वचित् । न चैनं पादतः कुर्य्यात् मुखेन न धमेद्वधः ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ (अतिक्रमः । यथा, महाभारते । १ । १५९ । ३६ । “न चाप्यधर्म्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्म्मः सुमहान् भर्त्तुः पूर्व्वस्य लङ्घने ॥”) अश्वतृतीयगतिः । यथा, -- “प्लुतन्तु लङ्घनं पक्षिमृगगत्यनुहारकम् ।” इति हेमचन्द्रः ॥ * ॥ (स्त्री, अवमानना । यथा, मार्कण्डेये । १३५ । ३३ । “अन्यस्यापि स्ववंशस्य लङ्घना क्रियते हि या । तां नालं क्षत्त्रियः सोढुं किं पुनः पितृमार- णम् ॥”)
📄 मूल मुद्रित पृष्ठ (4-203-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "लङ्घन" आता है (5)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें