🕉️ 21 November 2026, Saturday · 11:15:36 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

लौहित्य
lauhitya
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
लौहित्य संज्ञा पुं॰ [सं॰]
१. एक प्रकार का धान जिसके चावल लाल रंग के होते हैं ।
२. ब्रह्मपुत्र नद ।
३. एक पर्वत का नाम ।
४. एक तीर्थ का नाम ।
५. लाल सागर ।
६. लालिमा । ललाई, लाली (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
लौहित्य m. (fr. id.) a kind of rice, Car. (cf. लोहित्य)
patron. (also pl.), Hariv. (cf. g. गर्गादि)
N. of a river, the Brahma-putra, MBh.; Hariv.
of a sea, ib.
of a mountain, MBh.
लौहित्य n. (prob.) of a Tīrtha, ib.
red colour, redness, Sāh.
📄 मूल मुद्रित पृष्ठ (910,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
लौहित्यः [लोहितस्य भावः प्यञ् स्वार्थे ष्यञ् वा] N. of a river, the Brahmaputra; चकंपे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः R. 4. 81; (where Malli. says; तीर्णा लौहित्या नाम नदी येन but quotes no authority). --त्यं Redness.
📄 मूल मुद्रित पृष्ठ (0936-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
लौहित्य न० लोहितस्य भावः ष्यञ् स्वार्थे ष्यञ् वा । १ रक्त- वर्णे २ रक्तत्वे “लोहितात् सरसो जातो लोहित्यस्तु ततो ऽभवत्” उक्ते ३ ब्रह्मपुत्रनदभेदे । “तीर्णलौहित्ये” रघुः ।
📄 मूल मुद्रित पृष्ठ (4836,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
लौहित्यं, क्ली, (लोहितस्य भावः । लोहित + ष्यञ् ।) लोहितत्वम् । इति मेदिनी । ये, १०२ ॥
लौहित्यः पुं, (लोहित एव । स्वार्थे ष्यञ् ।) नदभेदः । स च ब्रह्मपुत्त्रः । इति मेदिनी । ये, १०२ ॥ सागरः । इति शब्दमाला ॥ तस्य नदविशेषस्य उत्पत्तिर्यथा, -- सगर उवाच । “अमोघायां कथं जज्ञे लौहित्यो ब्रह्मणः सुतः । कथं शान्तनुभार्य्यायां रतः स कमलासनः ॥ पारस्त्रैणेयपुत्त्रो वा कथं जज्ञे पितामहात् । तत् सर्व्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम ॥ और्व्व उवाच । शृणु त्वं नृपशार्द्दूल कथयामि महत्तरम् । आख्यानं ब्रह्मपुत्त्रस्य लौहितस्य महात्मनः ॥ हरिवर्षे महावर्षे शान्तनुर्नाम नामतः । मुनिरासीन्महाभागो ज्ञानवान् सुतपोधनः ॥ तस्य भार्य्या महाभागा अमोघाख्या महा- सती । हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा ॥ तया सार्द्धं स कैलासमर्य्यादापर्व्वतेऽवसत् । लोहित्याख्यस्य सरसस्तीरे वै गन्धमादने ॥ एकदा स तपोनिष्ठो निजपुष्पादिगोचरे । जगाम वनमध्यन्तु चिन्वन् बहुफलानि च ॥ तस्मिन्नवसरे ब्रह्मा सर्व्वलोकपितामहः । तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया ॥ तां दृष्ट्वा हेमगर्भाभां युवतीमतिसुन्दरीम् । मोहितो मदनेनाशु तथाभूद्दूषितेन्द्रियः ॥ उदीरितेन्द्रियो भूत्वा जिघृक्षुस्तां महासतीम् । अथाधावत्तदा ब्रह्मा संमुखो मदनार्द्दितः ॥ धावमानं विधातारं दृष्ट्वामोघा महासती । मैवं मैवमिति प्रोक्त्वा पर्णशालां व्यलीयत ॥ इदञ्चोवाच धातारममोघा कुपिता तदा । पर्णशालात्तरगता द्वारमावृत्य तत्क्षणात् ॥ अकार्य्यं न मया कार्य्यं मुनिपत्न्या विगर्हितम् । बलात् प्रमथ्ये चाहं तत्त्वया त्वाञ्च शपाम्यहम् ॥ अमोघया चैवमुक्ते विधातुश्च तदा नृप । रेतश्चस्कन्द च तदैवाश्रमे शान्तनोर्मुनेः ॥ च्युते रेतसि धातापि हंसयानं समास्थितः । लज्जयातिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ ॥ गते वेधसिं शान्तनुर्निजमाश्रममागतः । आगत्य दृष्ट्वा हसानां पदक्षोभं तथा भुवि ॥ तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् । अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् ॥ किमेतदत्र शुभगे प्रवृत्तं दृश्यते तु यत् । पक्षिणाञ्च पदक्षोभं तेजश्चेदञ्च कीदृशम् ॥ सा तस्य वचन श्रुत्वा शान्तनुं मुनिसत्तमम् । अमर्षितेव न्यगददाकुला विकलानना ॥ हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः । कमण्डलुकरो भीरू रतिं मां समयाचत ॥ ततो मया मर्त्सितश्च उटजान्तरलीनया । प्रच्याव्य तेजः संयातो मम शापभयार्द्दितः ॥ कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो । न हि मां धर्षणां सोढुं कश्चित् शक्रोति जीव- भृत् ॥ [] स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा समागतः । इति निश्चित्य मनसा तत्र ध्यानपरोऽभवत् ॥ दिव्यध्यानेन तज्ज्ञात्वा देवकार्य्यमुपस्थितम् । तीर्थावतारणञ्चापि हिताय जगतां मुनिः ॥ ध्यात्वोदर्कं चिन्तयित्वा स्वभार्य्यामिदमब्रवीत् । इदं तेजो ब्रह्मणस्त्वं पिबामोघे ममाज्ञया ॥ हिताय सर्व्वजगतां देवकार्य्यार्थसिद्धये । भवत्या निकटं ब्रह्मा स्वयमेव समागतः ॥ त्वामप्राप्य महाकृत्यमावयोः स समर्प्य च । गतो निजास्पदं तत्त्वं कर्त्तुमर्हसि तद्वचः ॥ तत् श्रुत्वा शान्तनोर्व्वाक्यममोघातीव लज्जिता । सान्त्वयन्तीव तं प्राह पतिं नत्वा महासती ॥ नान्यस्य तेजो धास्यामि न चेत्ते विमनस्कता । अवश्यं यदि कर्त्तव्यं पीत्वा त्वं मयि चोत्सृज ॥ ततस्तस्या वचः श्रुत्वा युक्तं तथ्यञ्च शान्तनुः । स्वयं पीत्वा च तत्तेजस्तस्या गर्भे व्यसेचयत् ॥ संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती । गर्भं दधानामोघाख्या हिताय जगतां ततः ॥ तस्यां काले तु संप्राप्ते संजातो जलसञ्चयः । तन्मध्ये तनयश्चापि नीलवासाः किरीटधृक् ॥ रत्नमालासमायुक्तो रक्तगौरश्च
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें