🕉️ 20 November 2026, Friday · 03:55:06 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

वकुल
vakula
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
वकुल संज्ञा पुं॰ [सं॰]
१. अगस्त का पेड़ या फूल ।
२. मौलसिरी । उ॰—सूखा है यह मुख यहाँ, रूखा है मन आज । किंतु सुमन- संकुल रहे प्रिय का वकुल समाज ।—साकेत, पृ॰ २९३ ।
३. शिव । दे॰ बकुल ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
वकुल पु० वकि--कुलच् नलोपः । १ स्वनामख्याते पुष्पवृक्षे अमरः । २ कटुकायां स्त्री राजनि० टाप् । काकोल्यां ङीप् पृषो० । वकूलोऽपि वकुले पु० । “वकुलो मधुगन्धश्च सिंहकेसरकस्तथा । वकुलस्तुवरोऽ- नुष्णः कटुः पाके रसे गुरुः । कफपित्तविषश्वित्रि कृमि- दन्तगदापहः” भावप्र० । अस्य ओष्ठ्यादित्वमिच्छन्त्यन्ये ।
📄 मूल मुद्रित पृष्ठ (4838,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
ब(व)कुलः, पुं, (ब(व)ङ्कते इति । ब(व)कि कौटिल्ये + “मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरच् प्रत्ययरेफस्य लत्वं बङ्केर्नलोप- श्चेत्युज्ज्वलदत्तः ।) स्वनामख्यातपुष्पवृक्षः । तत्- पर्य्यायः । केसरः २ । इत्यमरः । २ । ४ । ६४ ॥ केशरः ३ । इति भरतः ॥ बकूलः ४ सिंह- केसरः ५ वरलब्धः ६ सीधुगन्धः ७ मुकूलः ८ मुकुलः ९ । इति शब्दरत्नावली ॥ स्त्रीमुख- मधु १० दोहलः ११ मधुपुष्पः १२ सुरभिः १३ भ्रमरानन्दः १४ स्थिरकुसुमः १५ शारदिकः १६ करकः १७ सीसंज्ञः १८ विशारदः १९ गूढ- पुष्यकः २० धन्वी २१ मदनः २२ मद्यामोदः २३ चिरपुष्पः २४ ॥ (यथा, महाभारते । १ । ६३ । ४२ । “पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः ॥”) अस्य गुणाः । शीतलत्वम् । हृद्यत्वम् । विष- दोषनाशित्वम् । मधुरत्वम् । कषायत्वम् । मदाढ्यत्वम् । हर्षदायकत्वञ्च ॥ तत्कुसुमगुणाः । रुच्यत्वम् । क्षीराढ्यत्वम् । सुरभित्वम् । शीत- लत्वम् । मधुरत्वम् । स्निग्धत्वम् । कषायत्बम् । मलसंग्रहकारकत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “बकुलो मधुगन्धश्च सिंहकेसरकस्तथा । बकुलस्तु वरोऽनुष्णः कटुः पाके रसे गुरुः ॥ कफपित्तविषश्वित्रकृमिदन्तगदापहः ॥” इति भावप्रकाशः ॥ तत्फलगुणाः । “बकुलं मधुरं ग्राहि दन्तस्थैर्य्यकरं परम् ॥” तत्पुष्पगुणाः । “पद्मं कषायं मधुरं शीतं पित्तकफास्रनुत् । तद्बत् बकुलपुन्नागकह्लारोत्पलपाटलम् ॥” इति राजवल्लभः ॥ अस्योत्पत्तिर्यथा, -- “विचरन्तं तदा भूयो महेशं कुसुमायुधः । आरात् स्थित्याग्रतो धन्वी सन्तापयितुमुद्यतः ॥ ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः । स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥ आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि । प्रादह्यत तदा ब्रह्मन् ! पादादारभ्य कक्ष्यवत् ॥ प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः । उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥ यदासीन्मुष्टिबन्धन्तद्रुक्मपृष्ठं महाप्रभम् । स चम्पकतरुर्जातः स्रग्गन्धाढ्यो गुणाकृतिः ॥ नाहस्थानं शुभाकारं यदासीद्बज्रभूषितम् । तज्जातं केशवारण्यं बकुलं नामतो नगैः ॥ या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता । जाता सा पाटला रम्या भृङ्गराजिविराजिता ॥ नाहोपरि तथा मुष्टौ स्थानं चन्द्रमणिप्रभम् । पञ्चगुल्माभवज्जाती शशाङ्ककिरणोज्ज्वला ॥ ऊर्द्ध्वं मुष्ठ्या अधः कोट्याः स्थानं विद्रुमभूषितम् । तस्मात् बहुपुटा मल्ली संजाता विविधा मुने ! ॥” इति श्रीवामनपुराणे ६ अध्यायः ॥ [] (शिवः । यथा, महाभारते तस्य सहस्रनाम- कीर्त्तने । १३ । १७ । १०९ । “बणिको वर्द्धकी वृक्षो बकुलश्चन्दनश्छदः । सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥”)
📄 मूल मुद्रित पृष्ठ (3-389-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "वकुल" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें