🕉️ 19 November 2026, Thursday · 09:23:38 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

वटक
vaṭaka
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
वटक संज्ञा पुं॰ [सं॰]
१. बड़ी टिकिया या गोला । बट्टा ।
२. बड़ा । पकौड़ा ।
३. एक तौल जो आठ माशे की होती है और सोना तौलने के काम में आती थी । इसे क्षुद्रम, प्रक्षण और कोक भी कहते थे । यह
१०. गुजा या शोण के बराबर कही गई है,— १० गुंजा =१ माशा, ४ माशा=१ शोण, २ शोण=१ वटक ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वटक m. n. a small lump or round mass, ball, globule, pill, round cake made of pulse fried in oil or butter, Vas.; Suśr.
वटक m. a particular weight (= 8 Māshas or 2 Śaṇas), ŚārṅgS.
📄 मूल मुद्रित पृष्ठ (914,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वटकः 1 A kind of cake. --2 A small lump, ball, globule, pill.
📄 मूल मुद्रित पृष्ठ (0940-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
वटक पु० वट--क्वुन् । पिष्टकभेदे (वडा) भावप्र० कृतान्नशब्दे २१८२ पृ० दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (4843,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
वटकः, पुं, (वट एव । स्वार्थे कन् ।) पिष्टक- विशेषः । इत्यमरभरतौ ॥ वडा इति भाषा । अस्य गुणौ । विदाहित्वम् । तृष्णाकारित्वञ्च । इति राजवल्लभः ॥ अपि च । “माषाणां पिष्टिकां युक्तां लवणार्द्रकहिङ्गुभिः । कृत्वा विदध्याद्वटकांस्तांस्तैलेषु पचेच्छनैः ॥ विशुष्का वटका बल्या बृंहणा वीर्य्यवर्द्धनाः । वातामयहरा रुच्या विशेषादर्दितापहाः ॥ विबन्धभेदिनः श्लेष्मकारिणोऽत्यग्निपूजिताः । संचूर्ण्य निक्षिपेत्तक्रे भृष्टं जीरकहिङ्गु च ॥ लवणं तत्र वटकान् सकलानपि मज्जयेत् । शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः ॥ विबन्धकृद्विदाही च श्लेष्मलः पवनापहः । राज्यक्तयातिरोचिन्या पाचन्या तांस्तु भक्षयेत् ॥ तत्प्रकारा यथा । कदलसुमनमाषक्षोदसत्सीरिशस्यै- र्म्मरिचसुघनदुग्धैः सच्चतुर्ज्जातचन्द्रैः । कृत इह घृतपक्वो यः पतेत् खण्डपाके वटकममृतकेलिं सा व्यधात्तं प्रियेष्टम् ॥ १ ॥ सामिक्षैः शालिचूर्णैर्दधिमरिचसितानारिकेला- र्द्रशस्यै- र्जात्येलासल्लवङ्गामृतकदलफलैः फेणितैः पिष्टमुद्गैः । सृष्टः पक्वो घृते यः प्रपतति समधौ दुग्धपूरे प्रगाढे सेन्दौ कर्पूरकेलिं तमिह मुवटकं सा व्यधात् स्वप्रियेष्टम् ॥ २ ॥ ग्रन्थिवद्बटिकालिस्तैर्द्रव्यैः सृष्टा तु या पतेत् । पञ्चामृते व्यधात्तां सा पीयूषग्रन्थिपालिकाम् ॥ ३ सक्षीरसारशशितण्डूलनारिकेल- जातीलवङ्गमरिचैः ससितैः सुपिष्टैः । रम्भैलया च घृतभावनया भवेद्या सा तामनङ्गगुटिकां विदधे प्रियेष्टाम् ॥ ४ ॥ कदलमरिचदुग्धैः खण्डगोधूमपक्व- प्रकटितवटकोऽयं भूरिजातीफलाढ्यः । नवविधुमधुमध्ये यो विलासं विधत्ते रचित इह तयासौ सीधुपूर्व्वो विलासः ॥ ५ ॥ लवङ्गैलेन्द्वमरिचैः संयुतैः शर्कराचयैः । चक्रे गङ्गाजलाख्यानि लड्डुकान्यपराणि च ॥ ६ तैस्तैर्युतैः क्षीरसारैस्तथा लाङ्गलिशस्यकैः । अन्यान्यप्याज्यसंभृष्टैः सा रसैः सरपूपिका ॥” ७ इति रघुनाथभट्टकृते गोविन्दलीलामृते १९ सर्गः ॥ * ॥ अथाम्लिकावटकः । “अम्लिकां स्वेदयित्वा तु जलेन सह मर्द्दयेत् । तन्नीरे कृतसंस्कारे वटकान् मज्जयेज्जनः ॥ अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः । वटकस्य गुणेः पूर्व्वैरेतेऽपि च समन्विताः ॥ * ॥ अथ तक्रवटकः । मुद्गानां वटकास्तक्रे मज्जिता लघवो हिमाः । संस्कारजप्रभावेण त्रिदोषशमना हिताः ॥ * ॥ अथ माषवटकः । माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृताः । [] तया विरचिता वस्त्रे वटिकाः साधु शोषिताः ॥ तालितास्तप्ततैले ता अथवा सुप्रलेहिताः । वटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम् ॥ * अथ कुष्माण्डवटिः । कुष्माण्डकवटी ज्ञेया पूर्व्वोक्तवटिकागुणा । विशेषात् पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ॥ अथ मुद्गवटिका । मुद्गानां वटिका तद्वद्द्रविता साधिता तथा । पथ्या रुच्या ततो लघ्वी मुद्गसूपगुणा स्मृता ॥” इति भावप्रकाशः ॥ * ॥ (वटी । वडि इति भाषा ॥ यथा, -- “वटका अथ कथ्यन्ते तन्नाम गुटिका वटी । मोदको वटिका पिण्डी गुडोवर्त्तिस्तथोच्यते ॥ लेहवत् साध्यते वह्रौ गुडो वा शर्कराथवा । गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे ॥ यथा च । “मण्डूरं चूर्णयेच्छुद्धं गोमूत्रेऽष्टगुणे क्षिपेत् । पक्त्वा च वटकं कृत्वा दद्यात्तक्रानुपानतः ॥” इति शार्ङ्गधरे मध्यखण्डे सप्तमेऽध्याये मण्डूर वटके ॥ * ॥) अष्टमाषकपरिमाणम् । यथा, -- “दशगुञ्जास्तु माषः स्यात् शाणो माषचतुष्टयम् । द्वौ शाणौ वटकः कोणस्तोलको द्रङ्खणश्च सः ॥” इति शब्दमाला ॥ (तथा च । “माषेश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते । टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते । क्षुद्रको वटकश्चैव द्रङ्क्षणः स निगद्यते ॥” इति शार्ङ्गधरे पूर्व्वखण्डे प्रथमेऽध्याये ॥)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें