व(व)न्दी, स्त्री, (वन्दि + “कृदिकारादक्तिनः ।” इति ङीष् ।) वन्दिः । इत्यमरटीकायां भरतः ॥ (यथा, कुमारे । २ । ५२ । “गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् । प्रत्यानेष्यति शत्रुभ्यो वन्दीमिव जयश्रियम् ॥”)
व(ब)न्दी [न्], पुं, (वन्दते स्तौति नृपादीन्निति । वदि स्तुतौ + णिनिः ।) राजादेर्यात्रादौ वीर्य्यादस्तुतिकारकः । तत्पर्य्यायः । स्तुति- पाठकः २ । इत्यमरः ॥ मागधः ३ मगधः ४ । इत्यन्ये । इति तट्टीकायां भरतः ॥ (यथा, रघुः । ४ । ६ । “परिकल्पितसान्निध्या काले काले च वन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥”) अस्योत्पत्तिर्यथा, -- “क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥” इति मानवे १० अध्यायः ॥ * ॥ श्राद्धोत्तरमस्मै शक्तितो दानस्याकरणे निन्दा यथा, -- “वन्दिभ्यश्चैवमर्थिभ्योऽन्नार्थिभ्यश्चन्नमर्थितः । यदि तत्र न दद्यात्तु विफलं शाक्ततो भवेत् ॥” वन्दिनो वीर्य्यस्तोतारः । अर्थितः सन् यदि एभ्योऽन्नं न दद्यात् श्राद्धं विफलं भवेदित्यर्थः । “सूताः पौराणिकाः प्रोक्ता मागधा वंश- शंसकाः । वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः ॥” इत्युक्तेः । इत्थञ्च श्राद्धोत्तरदाननिषेधात् श्राद्धे वन्दिप्रभृतिभ्यो दानाकरणे निन्दाश्रवणाच्च श्राद्धात् पूर्व्वं तदर्थं भोज्यादिकं उत्सृजेत् । इति श्राद्धतत्त्वम् ॥ (भृत्यः । यथा, भागवते । ११ । ४ । १५ । “ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः । [] उर्व्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥” “सुरवन्दिनो देवभृत्याः ।” इति तट्टीकायां श्रीधरस्वामी ॥)
📄 मूल मुद्रित पृष्ठ (4-265-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।