🕉️ 21 November 2026, Saturday · 04:19:22 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

वर्गमूल
vargamūla
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
वर्गमूल संज्ञा पुं॰ [स॰] किसी वर्गांक का वह अंक जिसे यदि उसी से गुणन करें, तो गुणन वही वर्गांक हो । जैसे,—४ वर्गांक का वर्गमूल २ और २५ का ५ होगा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वर्ग—मूल n. (in arithm.) square root, Col.
📄 मूल मुद्रित पृष्ठ (924,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
वर्गमूल न० वर्मस्य समद्विघातात्मककृतेः मूलम् । अङ्कशास्त्र- प्रसिद्धं समाङ्कद्वयेन हताङ्कमङ्क्यायाः यन्मूलं घातसाधनं तत्र । यथा षोडशानां चत्वारि नवानां त्रयः चतुर्णां द्वौ इत्यादि ।
📄 मूल मुद्रित पृष्ठ (4850,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
वर्गमूलं, क्ली, (वर्गस्य समानाङ्कद्बयस्य मूलम् आद्याङ्कः ।) पूरितसमानाङ्कद्वयस्याद्याङ्कः । यथा । वर्गमूले करणसूत्रं वृत्तम् । “त्यक्त्वान्त्याद्विषमात् कृतिं द्बिगुणयेन्मूलं समे तद्धृते त्यक्त्वालब्धकृतिं तदाद्यविषमाल्लब्धं द्बिनिघ्नं न्यसेत् । पङ्क्त्यां पङ्क्तिहृते समेऽन्यविषमात् त्यक्त्वाप्तवर्गं फलं पङ्क्त्यां तद्द्बिगुणं न्यसेदिति मुहुः पङ्क्तेर्दलं स्यात् पदम् ॥” * ॥ अत्रोद्देशकः । “मूलं चतुर्णाञ्च तथा नवानां पूर्व्वं कृतावाञ्च सखे कृतीनाम् । पृथक् पृथग्वर्गपदानि विद्धि बुद्धेर्व्विबुद्धिर्यदि तेऽत्र जाता ॥” न्यासः ४ । ९ । ८१ । १९६ । ८८२०९ । १०० १०००२५ । लब्धानि क्रमेण मूलानि २ । ३ । ९ । १४ । २९७ । १००००५ । इति लीला- वत्यां वर्गमूलम् ॥ सजातीयाङ्कत्रयस्य घातः घनः । तस्य तन्मू- लस्य च समुदायसूत्रोदाहरणानि पूर्व्वे न लिखितानि प्रसङ्गादत्र पुनर्ल्लिख्यन्ते । घने करणसूत्रं वृत्तत्रयम् । “समत्रिघातश्च घनः प्रदिष्टः स्थाप्यो घनोऽन्त्यस्य ततोऽन्त्यवर्गः । आदित्रिनिघ्नस्तत आदिवर्ग- स्त्र्यन्त्याहतोऽथादिघनश्च सर्व्वे ॥ स्थानान्तरत्वेन युता घनः स्यात् प्रकल्प्य तत् खण्डयुगं ततोऽन्त्यम् । एवं मुहुर्व्वर्गघनप्रसिद्धा- वाद्याङ्कतो वा विधिरेष कार्य्यः ॥ खण्डाभ्यां वा हतो राशिस्त्रिघ्नः खण्डघनैक्ययुक् । वर्गभूलघनस्वघ्नो वर्गराशेर्घनो भवेत् ॥” * ॥ अत्रोद्देशकः । “नवघनं त्रिघनस्य घनं तथा कथय पञ्चघनस्य घनञ्च मे । घनपदञ्च ततोऽपि घनात् सखे यदि घनेऽस्ति घना भवतो मतिः ॥” न्यासः ९ । २७ । १२५ । जाताः क्रमेण घनाः ७२९ । १९६८३ । १९५३१२५ ॥ अथवा राशिः ९ । अस्य खण्डे ४ । ५ । आभ्यां राशिर्हतः १८० त्रिनिघ्नश्च ५४० । खण्डघनैक्येन १८९ । युतो जातो घनः ७२९ ॥ अथवा राशिः २७ । अस्य खण्डे २० । ७ । आभ्यां हतस्त्रिघ्नश्च ११३४० । खण्डघनैक्येन ८३४३ । युतो जातो घनः १९६८३ ॥ अथवा राशिः ४ । अस्य [] मूलम् २ । धनः ८ । अयं स्वघ्नो जातश्चतुर्णां घनः ६४ ॥ अथवा राशिः ९ । अस्य मूलम् ३ । घनः २७ । अस्य वर्गो नवानां घनः ७२९ । य एव वर्गराशिघनः स एव वर्गमूलघनवर्गः ॥ इतिघनः ॥ * ॥ अथ घनमूले करणसूत्रं वृत्तद्वयम् । “आद्यं घनस्थानमथाघने द्वे पुनस्तथान्त्याद्घनतो विशोध्यम् । घनं पृथक्स्थं पदमस्य कृत्या त्रिघ्न्या तदाद्यं विभजेत् फलन्तु ॥ पङ्क्त्यां न्यसेत्तत्कृतिमन्त्यनिघ्नीं त्रिघ्नीं त्यजेत्तत्प्रथमात् फलस्य । घनं तदाद्याद्घनमूलमेवं पङ्क्तिर्भवेदेवमतः पुनश्च ॥” अत्रोद्देशकः । पूर्व्वघनानां मूलार्थं न्यासः ७२९ । १९६८३ । १९५३१२५ । क्रमेण लब्धानि मूलानि ९ । २७ । १२५ । इति लीलावत्यां घनमूलम् ॥
📄 मूल मुद्रित पृष्ठ (4-277-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "वर्गमूल" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें