🕉️ 24 November 2026, Tuesday · 02:13:10 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

वर्णधर्म
varṇadharma
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
वर्णधर्म संज्ञा पुं॰ [सं॰] वर्णों या जातियों का पृथक् पृथक् धर्म । जातिधर्म [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वर्ण—धर्म m. the partic. duty or occupation of any caste or tribe, Gaut.; Mn. &c.
📄 मूल मुद्रित पृष्ठ (924,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
वर्णधर्म्म पुंन० ६त०। विप्रादीनामसाधारणे धर्मे यथा विप्रस्य याजनाध्यापनप्रतिग्रहादिः । क्षत्रियस्य प्रजा- पालनादिः पु० जातिधर्मशब्दे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (4853,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
वर्णधर्म्मः, पुं, क्ली, (वर्णानां ब्राह्मणादीनां धर्म्मः ।) ब्राह्मणक्षत्त्रियवैश्यशूद्राणां कर्त्तव्यं कर्म्म । तद्- यथा, -- “यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः । अध्यापनं चाध्ययनं षट्कर्म्माणि द्विजोत्तमाः ॥ दानमध्ययनं यज्ञो धर्म्मं क्षत्त्रियवैश्ययोः । दण्डो युद्धं क्षत्त्रियस्य कृषिर्वैश्यस्य शस्यते ॥ शुश्रूषैव द्विजातीनां शूद्राणां वर्णसाधनम् । कारुकर्म्म तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥ क्षमा दमो दया दानमलोभस्त्याग एव च । आर्ज्जवं चानसूया च तीर्थानुसरणं तथा ॥ सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः । देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ॥ अहिंसा प्रियवादित्वमपैशुन्यमकल्कता । समासिकमिमं धर्म्मं चातुर्व्वर्णेऽब्रवीन्मुनिः ॥ प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रिया- वताम् । स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ॥ वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् । गान्धर्व्वं शूद्रजातीनां परिचारे तु वर्त्तताम् ॥” इति कौर्म्मे २ अध्यायः ॥ * ॥ अपि च । मार्कण्डेय उवाच । “हारीतस्तानुवाचाथ तैरेवं चोदितो मुनिः । शृण्वन्तु मुनयः सर्व्वे धर्म्मान् वक्ष्यामि शाश्व- तान् ॥ वर्णानामाश्रमाणाञ्च योगशास्त्रञ्च सत्तमाः । यज्ज्ञात्वा मुनयो नित्यं मुच्यते जन्मबन्धनात् ॥ ब्राह्मण्यां ब्राह्मणेनैव उत्पन्नो ब्राह्मणः स्मृतः । तस्य धर्म्मं प्रवक्ष्यामि तं योग्यं देशमेव च ॥ कृष्णसारो मृगो यत्र स्वभावात्तु प्रवर्त्तते । तस्मिन् देशे वसन् धर्म्मं कुरुते ब्राह्मणोत्तमः ॥ अध्यापनं चाध्ययनं यजनं याजनं तथा । दानं पतिग्रहश्चैव कर्म्मषट्कमिहोच्यते ॥ अध्यापनञ्च त्रिविधं धर्म्मार्थं चात्मकारणम् । शुश्रूषाकारणञ्चेति त्रिविधं परिकीर्त्तितम् ॥ नैषामन्यतमो वापि दृश्यते यत्र मानवे । तत्र विद्या न दातव्या पुरुषेण हितैषिणा ॥ योग्यानध्यापयेच्छिष्यान् यज्ञानपि च योजयेत् । [] विदितान् प्रतिग्रहानिच्छेद्गृहधर्म्मप्रसिद्धये ॥ वेदमेवाभ्यसेन्नित्यं शुचौ देशे समाहितः । यजेद्यज्ञं यथाशक्त्या दद्याद्बित्तानुसारतः ॥ नित्यं नैमित्तिकं धर्म्मं कर्म्म कुर्य्यात् प्रयत्नतः । गुरुशुश्रूषणञ्चैव यथान्यायमतन्द्रितः ॥ सार्य प्रातरुपासीत विधिनाग्निं द्विजोत्तमः । कृतस्नानः प्रकुर्व्वीत वैश्वदेवं दिने दिने ॥ अतिथिञ्चागतं भक्त्या पूजयेच्छक्तितो गृही । अन्यानप्यागतान् विप्रान् पूजयेदविरोधतः ॥ स्वदारनिरतो नित्यं परदारविवर्ज्जितः । सत्यवादी जितक्रोधः स्वधर्म्मनिरतो भवेत् ॥ अकर्म्मणि च संप्राप्ते प्रमादे नैव रोचयेत् । प्रियां हितां वदेद्वाचं परलोकाविरोधिनीम् ॥ एष धर्म्मः समुद्दिष्टो ब्राह्मणस्य समासतः । धर्म्ममेवन्तु यः कुर्य्यात् स याति ब्रह्मणः पदम् ॥ हारीत उवाच । क्षत्त्रादीनां प्रवक्ष्यामि यथावदनुपूर्व्वशः । येन येन प्रवर्त्तन्ते विधिना क्षत्त्रियादयः ॥ राजा च क्षत्त्रियश्चैव प्रजा धर्म्मेण पालयेत् । कुर्य्यादध्ययनं सम्यक् युगयुक्तो यथाविधि ॥ दद्याद्दानं द्बिजाग्रेभ्यो धर्म्मबुद्धिसमन्वितः । देवब्राह्मणभक्तश्च पितृकार्य्यपरस्तथा ॥ धर्म्मेण वै जयाकाङ्क्षी अधर्म्मस्य विवर्जयेत् । उत्तमां गतिमाप्नोति क्षत्त्रियो ह्येवमाचरन् ॥ * ॥ गोरक्षं कृषिबाणिज्यं कुर्य्याद्बैश्यो यथाविधि । दानं धर्म्मं यथाशक्त्या द्बिजशुश्रूषणं तथा ॥ लोभदम्भविनिर्म्मुक्तः सत्यवागनसूयकः । स्वदारनिरतो दान्तः परदारविवर्ज्जितः ॥ धनैर्विप्रान् समभ्यर्च्च्य यज्ञकाले त्वयाचितः । अप्रमत्तः स्वधर्म्मेषु वर्त्तेत देहपातनात् ॥ यज्ञाध्ययनदानानि कुर्य्यान्नित्यमतन्द्रितः । पितृकार्य्यञ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "वर्णधर्म" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬