विपाशा, स्त्री, (पाशं विमोचयतीति । पाश + “सत्यापपाशेति ।” ३ । १ । २५ । विमोचने णिच् । ततः पचाद्यच् ।) नदीविशेषः । इत्यमरः ॥ पुत्त्रशोकादेव गले पाशं बद्ध्वा प्रविष्टं वशिष्ठं पाशच्छेदात् विपाशितवती विमुक्तपाशं कृत- वतीति विपाशा ञिः कल्यादेरिति पाशं विमोचयति इत्यर्थे ञिः पचादित्वादन् आप् । एवं क्विपि विपाट् । इति तट्टीकायां भरतः ॥ * ॥ (यथा, हरिवंशे । १६६ । २० । “इरावती विपाशाच सरयूर्यमुना तथा ॥”) तस्या जलगुणाः । “शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्व्वामयघ्नम् । जलं निर्म्मलं दीपनं पाचनञ्च प्रदत्ते बलं बुद्बिमेधायुषञ्च ॥” इति राजनिर्घण्टः ॥ [] (अस्या नामनिरुक्त्यादि विशेषविवरणं महा- भारते । १ । १७८ । अध्याये द्रष्टव्यम् ॥ अस्या- स्तीरे पीठस्थाने अमोघाक्षीदेवी वर्त्तते । यथा, देवीभागवते । ७ । ३० । ६५ । “विपाशायाममोघाक्षी पाटला पुण्ड्रवर्द्धने ॥” तथा अत्र यशस्करनामकविष्णुमूर्त्तिरपि वर्त्तते । यथा, नरसिंहपुराणे ६२ अध्याये । “यशस्करं विपाशायां माहिष्मत्यां हुताश- नम् ॥” विगतः पाशो यस्य ।) पाशवर्ज्जिते, त्रि । इति धरणिः ॥ (यथा, महाभारते । ३ । १३० । ९ । “अत्र वै पुत्त्रशोकेन वशिष्ठो भगवानृषिः । बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः ॥” पाशास्त्रहीने च त्रि ॥ यथा, हरिवंशे । ४७ । ४८ । “निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे ॥”)
📄 मूल मुद्रित पृष्ठ (4-407-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।