🕉️ 27 November 2026, Friday · 09:47:32 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

विषमज्वर
viṣamajvara
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
विषमज्वर संज्ञा पुं॰ [सं॰]
१. वैद्यक के अनुसार एक प्रकार का ज्वर जो होता तो नित्य है, पर जिसके आने का कोई समय नियत नहीं होता । उ॰—जो ज्वर छोड़ दे और फिर आ जावे उसके विषमज्वर कहते हैं ।—माधव॰, पृ॰ २० । विशेष—इस ज्वर में तापमान भी समान नहीं रहता और नाड़ी की गति भी सदा एक सी नहीं रहती, बराबर बदलती रहती है । इसलिये इसे विषमज्वर कहते हैं । ज्वर का यह रूप किसी साधारण ज्वर के बिगड़ने अथवा पूरी तरह अच्चे न होने पर कुपथ्य करने के कारण होता है । वैद्यक में इसके अनेक भेद कहे गए हैं । जैसे—संतत, सतत, तृतीयक, चतुर्थक आदि ।
२. जाड़ा देकर आनेवाला ज्वर । जूड़ी बुखार ।
३. क्षयी रोग में होनेवाला ज्वर ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वि-षम—ज्वर m. irregular (chronic) fever, Suśr.
📄 मूल मुद्रित पृष्ठ (996,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
विषमज्वर पु० विषम उग्रो ज्वरः । ज्वरभेदे । यथोक्तं भावप्र० “तत्र विषमज्वरस्य निदानकथनपूर्विकां संप्राप्तिमाह [] “दोषोऽल्पोऽहितसम्भूतो ज्वरो सृष्टस्य वा पुनः । धातुमन्यतमं प्राप्य वरोति विष० ज्वरम्” । अयमर्थः ज्ज्वरोतसृष्टस्य ज्वरण त्यक्तस्य । सन्निकृष्टहेतुमाह । दोषः अल्पः, ज्वरमुक्तस्य स्वलोऽपि । विप्रकृष्टहेतुमाह । अहि- तमाहारविहारादि तेन सम्भूतः संपूर्णोजातः अन्यत- मन्धातुं रसरक्तादिकम् प्राप्य दूषयित्वा पुनर्विषमज्वरं करोति ज्वरोतसृष्टस्य वेति वाशब्देनेति बोध्यते । प्रथमतो विषमज्वरो भवति यत उक्तम् । “आरम्भा- द्विषमो यस्तु” इत्यादिकम् रसादिकन्धातुं दूषयित्वाकं वि षमज्वरं करोति इत्यपेक्षयामाह “सन्ततं रसरक्तस्थः सतत रक्तधातुगः । दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः । मेदोगतस्तृतीयेऽह्नि अस्थिमज्जागतः पुनः । कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम्” । अन्तकमिव मारकत्वात् । अथ विषमज्वरस्य सामान्यं लक्षणमाह “यः स्यादनियतात् कालात् शीतोष्णाभ्यां तथैव च । वेगतश्चापि विषमोज्वरः स विषमः स्मृतः” । यः स्यादनियतात् कालादित्यस्यायमर्थः । यथा वाति- कोज्वरः सप्त दिनानि, पैत्तिको दश दिनानि, श्लैष्मिको द्वादशदिनानि, दोषाणां प्राबल्यैर्वातिकश्चतुर्दशदिनानि, पैकिको विंशतदिनानि, श्लैष्मिकश्चतुर्विंशतिदिनानि स्यात् । तथा विषमज्वरो नियतं कालं व्याप्य न स्या- दित्यर्थः । शीतोष्णभ्यां गुणभ्यां स्यात् । “वेगतश्चापि विषमः कदाचिदतिवेगवान्” । कदाचिच्छान्तवेगः । वि- षमज्वरस्य भेदानाह “सन्ततः सततोऽन्येद्युस्तृतीयक चतुर्थकौ” । तत्र सन्ततस्य लक्षणमाह “सप्ताहं वा दशाहं वा द्वादशाहमथापि वा । सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते” । विकल्पो वातिकादिभेदात् । सन्तत्था नैरन्तर्य्येण अविसग्र्गी अपरित्यागो । ननु सुक्तानुबन्धित्वं विषमत्वमिति विषमलक्षणम् । तदत्र न घटत इति कथमयं विषमेषु पठ्यते” । घटत एवेति न दोषः । यत उक्तं चरकेण “विसर्गं द्वादशे कृत्वा दिवसे व्यक्तलक्षणम् । दुर्लभोपशमः कालं दीर्घमेवानु- पर्त्तते” इति । यत्तु खरनादेनोक्तम “ज्वराः पञ्च तु ये प्रोक्ताः पूर्वे सन्ततकादयः । चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः” इति तच्चिरेण त्यागाभिप्रायेण । सततकक्षणमाह “व्यहोरात्रे सततको द्वौ कालावनु- वर्त्तते” । द्वौ कालौ अहन्येककालं रात्रावेककालम् । यतो दोषाक्षागहोरात्ने प्रत्येकं द्वौ द्वौ प्रकोपकालौ । [] यत उक्तं वाग्मटेन “वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाः क्रमादिति” । अन्येद्युष्कलक्षणमाह । “अन्येद्युष्कस्त्र- होरात्रादेककालं प्रवर्त्तते” । एककालं दोषापेक्षया एककालमपि न द्वितीयं, प्रथमकाले हृद्येव दाषस्थितेः । तृतीयकचतुर्थकयीर्लक्षणमाह । “तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः” । तृतीयेऽह्नि इत्यागमनदिनं गृ- हीत्वा यत उक्तम् “दिनमेकमतिक्रम्य यो भवेत् स तृतीयकः । दिनद्वयन्त्वतिक्रम्य यः स्यात् स हि चतु- र्थकः” इति । अत्राह वृद्धसुश्रुतः “कफस्थानविभागेन यथासङ्ख्यं करोति हि । सततान्येद्युष्कत्र्याख्य चतु- र्थकप्रलेपकान् । अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यत । दोष आमाशयं प्राप्य करोति विषमज्वरम्” । अयमर्थः आमाशयोरःकण्ठशिरःसन्धयः पञ्च कफ- स्थानानि एषु तिष्ठन् दोषो यथासङ्ख्यं संततादीन् करोति । तत्र आमाशये स्थितो दोषः सततं करोति द्वौ कालौ, अहोरात्रे कालद्वये दोषप्रकोपात् । हृदये स्थितो दोष आमाशयमागत्य अन्येद्युष्कं करोति एककालं नैकट्यादेकस्मिन्नेवाहोरात्रे दोष आमाशयमा- गत्य अन्येद्युष्कं करोति । तत्र द्वौ दोषप्रकोपकालौ एकस्मिन्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
विषमज्वरः, पुं, (विषमः ज्वरः ।) ज्वररोगबिशेषः । तस्य निदानकथनपूर्व्विकां संप्राप्तिमाह । “दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः । धातुमन्यतमं प्राप्य करोति विषमज्वरम् ॥” अयमर्थः । ज्वरोत्सृष्टस्य ज्वरेण त्यक्तस्य । सन्निकृष्टं लक्षणमाह । दोषः अल्पः ज्वरमुक्त्या स्वल्पोऽपि । विप्रकृष्टं हेतुमाह । अहित- माहारविहारादि तेन सम्भूतः संपूर्णो जातः अन्यतमं धातुं रसरक्तादिकं प्राप्य दूषयित्वा [] पुनः विषमज्वरं करोति । ज्वरोत्सृष्टस्य वेति वाशब्देनेति बोध्यते । प्रथमतोऽपि विषमज्वरो भवति । यत उक्तम् । आरम्भाद्विषमो यस्त्वि- त्यादिकम् । धातुं दूषयित्वा कं विषमज्वरं करोतीत्यपेक्षायामाह । “सन्ततं रसरक्तस्थः सततं रक्तधातुगः । दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः ॥ मेदोगतस्तृतीयेऽह्नि अस्थिमज्जगतः पुनः । कुर्य्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् ॥” अन्तकं अन्तकमिव मारकत्वात् ॥ * ॥ विषम- ज्वरस्य सामान्यलक्षणमाह । “यः स्यादनियतात् कालाच्छीतोष्णाभ्यां तथैव च । वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः ॥” यस्त्वनियतात् कालात् स्यादित्यस्यायमर्थः । यथा, वातिको ज्वरः सप्तदिनानि पैत्तिको दश दिनानि श्लैष्मिको द्वादश दिनानि दोषाणां प्राबल्ये वातिकश्चतुर्द्दश दिनानि पैत्तिको विंशतिदिनानि श्लैष्मिकश्चतुर्व्विंशतिदिनानि स्यात् तथा विषामज्वरो नियतं कालं व्याप्य न स्यादित्यर्थः । शीतोष्णाभ्यां गुणाभ्यां स्यात् । “वेगतश्चापि विषमः कदाचिदपि वेगवान् ॥” कदाचिदपि शान्तवेगः ॥ विषमज्वरस्य भेदा- नाह । “सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ।” तत्र सन्ततस्य लक्षणमाह । “सप्ताहं वा दशाहं वा द्बादशाहमथापि वा । सन्तत्या योऽविसर्गी स्यात् सन्ततः स निग- द्यते ॥” विकल्पो वातिकादिभेदात् । सन्तत्या नैरन्त- र्व्येण अविसर्गी अपरित्यागी ॥ ननु मुक्तानु- बन्धित्वं विषमत्वमिति विषमलक्षणं तदत्र न घटत इति कथमयं विषमेषु पट्यते । घटत एव इति न दोषः । यत उक्तं चरकेण । “विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम् । दुर्ल्लभोपशमः कालं दीर्घमप्यनुवर्त्तते ॥” यत्तु खरनादः । “ज्वराः पञ्च च ये प्रोक्ताः पूर्व्वं सततकादयः । चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः ॥” इति । तच्चिरेण त्यागाभिप्रायेण ॥ * ॥ सतत- लक्षणमाह । “अहोरात्रे सततको द्बौ कालावनुवर्त्तते ।” द्वौ कालौ अहन्येककालं रात्रावेककालम् । यतो दोषाणामहोरात्रे प्रत्येकं द्वौ द्वौ प्रकोप- कालौ । यत उक्तं वाग्भटेन । “वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाः क्रमात् ।” इति ॥ अन्येद्युष्कलक्षणमाह । “अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते ।” एककालं दोषापेक्षया एककालमपि द्वितीयं प्रथमकाले हृद्येव दोषस्थितेः ॥ * ॥ तृतीयक- चतुर्थकयोर्लक्षणमाह । [] “तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ॥” तृतीयेऽह्नि इत्यागमनदिनं गृहीत्वा । यत उक्तम् । “दिनमेकमतिक्रम्य यो भवेत् स तृतीयकः । दिनद्वयं त्वतिक्रम्य यः स्यात् स हि चतुर्थकः ॥” इति ॥ अत्राह वृद्धसुश्रुतः । “कफस्थानविभागेन यथासंख्यं करोति हि । सततान्येद्युष्कत्र्याख्यचतुर्थकप्रलेपकान् ॥ अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रप- द्यते । दोष आमाशयं प्राप्य करोति विषमज्वरम् ॥” अयमर्थः । आमाशयोरः कण्ठशिरःसन्धयः पञ्च कफस्थानानि एषु तिष्ठन् दोषो यथासंख्यं सततादीन् करोति । तत्रामाशये स्थितो दोषः सततं करोति द्वौ कालौ अहोरात्रे कालद्बये दोषप्रकोपात् । हृदये स्थितो दोष आमाशय- मागत्य अन्येद्युष्कं करोति । एककालं नैकद्या- देकस्मिन्नेवाहोरात्रे दोष आमाशयमायाति । तत्र द्वौ दोषकोपकालौ एकस्मिन् काले हृदये तिष्ठत
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬