विषुवं, क्ली, समरात्रिन्दिवकालः । तत्पर्य्यायः । विषुवत् २ । इत्यमरः ॥ विषुपम् ३ विष्वक् ४ विश्वक् ५ । इति शब्दरत्नावली ॥ विषुणः ६ । इति रामाश्रमः ॥ विषुवः ७ । इति मुकुटः ॥ तत्तु मेषतुलयोः संक्रान्ती । यथा, -- “मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ ते तु महाविषुवजलविषुवनामभ्यां क्रमेण ख्याते । [] यथा, -- “विषुवाभ्यां वत्सरः स्यादिति शब्दविदां मतम् । महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्नितम् । तथा स्याज्जलविषुवं क्रमादाश्विनचिह्नितम् ॥” इति शब्दरत्नावली ॥ * ॥ विषुवारम्भकालो यथा, -- “मृगसंक्रान्तितः पूर्व्वं पश्चात् तारा दिनान्तरे । एकवर्षे चतुःपञ्चपलमानक्रमेण तु । षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः । एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥ व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवम् । कर्किसंक्रमणे तद्वदभितो दक्षिणायनम् ॥ अयनांशक्रमेणैव विषुवारम्भणं तथा । रविसंक्रान्तितो मेषतुलयोरभितः पुनः ॥ विषुवं मीनकन्यार्द्धे त्वेकाक्षीन्द्रशकाब्दके । दिनमानाय मीनार्द्धान्मेषार्द्धं पालिकं शतम् ॥ ततो वृषार्द्धपर्य्यन्तमशीतिः पलभाजिनी । मिथुनार्द्धं चतुस्त्रिंशत्पलानां वर्द्धते क्रमात् ॥ कर्कटार्द्धन्तु षट्त्रिंशत् सिंहार्द्धन्तु द्व्यशीतकम् । कन्यार्द्धन्तु द्विनवतिः क्रमात् त्रुट्यति वासरे ॥ कन्यार्द्धाद्रजनीमानं बोध्यं पूर्व्वक्रमेण हि । दिने दिने भागहारान्मानं बोध्यं दिवानिशोः ॥ एकमानं दण्डषष्ट्या त्यक्त्रान्यमाननिर्णयः । षट्षष्टिवत्सरानेवं ततः स्यात् षोडशांशके । पुनस्तद्वत्सरांस्तद्वत् एवं सप्तदशादिके ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ अन्यच्च “मेषसंक्रमतः पूर्व्वं पश्चात्तारा दिनान्तरे । प्रातिलोम्यानुलोम्येन विषुवारम्भणं भवेत् ॥ त्रयोदशदिने सौरे चैत्रे नखतिथौ शके । विषुवारम्भणं तत्र समं मानं दिवानिशोः ॥ ततः प्रतिदिनं वेला सपादत्रिपलात्मिका । वर्द्धते मेषविश्वांशपर्य्यन्तं स्थूलमार्गतः ॥ तथा ज्येष्ठान्तपर्य्यन्तं पादोनत्रिपलात्मिका । तादृगाषाढपर्य्यन्तं पलैकप्रमिता मता ॥ ततः कर्क्कटविश्वांशपर्य्यन्तं प्रत्यहं क्रमात् । सपादपलमानेन वेला त्रुट्यति निश्चितम् ॥ तादृग्भाद्रान्तपर्य्यन्तं पादोनत्रिपलात्मिका । तादृगाश्विनशेषान्तं हरनेत्रपलात्मिका ॥ दिवामानं दण्डषष्टेस्त्यक्त्वा रात्रेः प्रमाणकम् । वैशाखादौ दिवामानं रात्रिमानं तुलादिषु ॥ षट्षष्टिवत्सरानेवं ततः स्यात् द्वादशांशके । पुनस्तद्वत्सरांस्तद्वत् तत एकादशादिके ॥” इति सत्कृत्यमुक्तावली ॥
📄 मूल मुद्रित पृष्ठ (4-450-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।