वीजवपनं, क्ली, (वीजानां वपनम् ।) क्षेत्रे वीजस्य क्षेपणम् । तस्य दिनं दीपिकायाम् । “पूर्व्वाग्नियाम्यफणिपित्र्यशिवान्यभेषु रिक्ताष्टमीविगतचन्द्रतिथिं विहाय । द्व्यङ्गालिगोसमुदये विकुजार्किवारे शस्तेन्दुयोगकरणेषु हलप्रवाहः ॥” हलप्रवाहवद्वीजवपनस्य विधिः स्मृतः । चित्रायाञ्च शुभे केन्द्रे स्थिरस्वमनुजोदये ॥ हेमवारिविलिप्तस्य वीजस्योन्नयतः शुचिः । इन्द्रं चित्ते निधायाथ स्वयं मुष्टित्रयं वपेत् ॥ कृत्वा चान्योन्यप्रोत्साहं नर्त्तको हृष्टमानसः । प्राङ्मुखः कलसं गृह्य इमं मन्त्रमुदोरयेत् ॥ त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे । नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु ॥ रोहन्तु सर्व्वशस्यानि काले देवः प्रवर्षतु । कर्षकास्तु भवन्त्वग्र्या धान्येन च धनेन च स्वाहा ॥ उप्त्वा वीजन्तु तत्रैव भोक्तव्यं बान्धवैः सह । वीजवपनं प्राजापत्यतीर्थेन । यथा, हारीतः । कनिष्ठायाः पश्चात् प्राजापत्यमावपनम् । होम- तर्पणे प्राजापत्येन कुर्य्यादिति । होमतर्पणे लाजहोमशनकादितर्पणे । पराशरः । “वैशाखे वपनं श्रेष्ठं मध्यमं रोहिणीरवौ । अतः परस्मिन्नधमं न जातु श्रावणे शुभम् ॥” ज्योतिषे । “पूर्व्वभाद्रपदा मूलं रोहिण्युत्तरफल्गुनी । विशाखा शतभिषा वाथ धान्यानां रोपणे वरा ॥ सदोप्त्वा रजनीं नीलीं पुत्त्रवित्तैर्वियुज्यते । स्वयंजाते पुनस्ते द्वे पालयन् नैव दुष्यति ॥ आरामे गृहमध्ये वा मोहात् सर्षपमावपन् । पराभवं रिपोर्याति ससाधनधनक्षयम् ॥ निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता । कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् ॥” निशा हरिद्रा । कोविदारको रक्तकाञ्चनः । [] “हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोपयेत् । वसुधेति सुशीतेति पुण्यदेति धरेति च । नमस्ते शुभगे नित्यं द्रुमोऽयं वर्द्धतामिति ॥” इति ज्योतिस्तत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (4-469-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।