🕉️ 27 November 2026, Friday · 08:25:33 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

वैधहिंसा
vaidhahiṃsā
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
वैधहिंसा स्त्री कर्म० । वेदविहितहिंसायाम् “या वेदवि- हिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्यात् वेदात् धर्मो हि निर्बभौ” मनुः । अत्र नियते- त्युपादानात् नित्ये पश्विष्ट्यादौ हिंसाया अहिंसात्वं न तु काम्येऽपीति सम्प्रदायविदः । पिष्टपशुमीमांसायाञ्च तथैवोक्तं “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथा” मनुना सङ्गे कामनायां पिष्टपशूनामेव विधानात् । विशेषतः कलौ “मांसदानं तथा श्राद्धे” “अश्वालम्भं गवालम्भम्” इति च कलिवर्ज्येषूक्तेः काम्यबलिदानादि निषेधः । हिसाया अनर्थसाधनत्वेऽपि वैधहिंसाया अर्थ- साधनत्वम् वैद्यकोक्तसंस्कारभेदेन विषस्येवेति बोध्यम् । ति० त० मतभेदेन च वैधहिंसा उभयरूपत्वं निरूपितं यथा “मा हिंस्यात् सर्वाभूतानि” इत्यत्र सर्वशब्दस्य व्याप- कार्थपरतया एतद्विधिमनुलङ्घ्य “वायव्यं श्वेतमाल- भेत्” इत्यादिविधेर्विषयाप्राप्तेरगत्या वैधातिरिक्त- [] विषयत्वं सर्वा सर्वाणि छन्दसि वेत्यनेन तत्पद सिद्धम् । यदपि नानादर्शनटीकाकृद्भिर्वाचस्पतिमिश्रैस्त- त्त्वकौमुद्यामभिहितं “न च मा हिंस्यात् सर्वा भू- तानि” इति सामान्यशास्त्रं विशेषशास्त्रेण “अग्नीषो- मीयं पशुमालभेत” इत्यनेन बाध्यते इति वाच्यं विरो- धाभावात् विरोधे हि बलीयसा दुर्बलं बाध्यते । न चास्ति विरोधः भिन्नविषयत्वात् । तथा हि मा हिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्वर्थत्वमपि । अग्नीषोमीयं पशुमालभेतेत्यनेन तु पशुहिंसायाः क्रत्वर्थत्वमुच्यते न त्वनर्थहेतुभावस्तथा सति वाक्यभेदप्रसङ्गात् । न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः । हिंसा हि पुरुषस्य दोषमावक्ष्यति क्रतोश्चोपकरिष्यतीत्यन्तेन, तदपि सांख्यनये । मीमां- सकमते तु विरोध एव तथा हि गुरुनये न खलु सर्व- भूतहिंसाभावविषयकं कार्य्यम् इति निषेधविध्यर्थस्य बाधं विना अग्नीषोमीयपश्वालम्मनविषयकं कार्य्यमिति भाव- विध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा तथास्तु । न च मुख्यपशुयागे पुरुषार्थपशुहिंसनस्यार्थसाधनत्व- मनर्थसाधनत्वञ्चोपपद्यते विरोधात् । वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव कुतो? विधेरेष स्वभावो यत् स्ववि- षयस्य साक्षात् परम्परया वा पुरुषार्थसाधनत्वमवगम- यति अन्यथाऽङ्गानां प्रधानोपकारकत्वमपि नाङ्गो- क्रियेत । अर्थसाधनत्वं बलवदनिष्टामनूबन्धीष्टसाधनत्वम् अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं न चानयोरेकत्र समावेश इति । अतएवोक्तं “तस्माद्यज्ञे बधोऽबधः” इति । नन्वेवं “श्येनेनाभिचरन् यजेत” इत्यत्र श्ये- नस्य शत्रुबधरूपेष्टसाध वमवगतम “अभिचारो मूल- कर्म च” इति मनूना उपपातकगणमध्य पाठादनिष्ट- सावनत्वमवगतम् । तदेतत् कथमुपपद्यतामिति चेन्मैवं “आततायिनमायान्तं हन्यादेवाविचारयन्” इत्येक० वाक्यतया आततायिस्थले इष्टसाधनत्वम् अनाततायि- स्थले तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध इति गुरुचरणाः” ।
📄 मूल मुद्रित पृष्ठ (4975-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬