शाकिनी, स्त्री, (शाकोऽस्त्यत्रेति । शाक + इनिः ।) शाकयुक्ता भूमिः । यथा, -- “शकटः शाकिनी गावो जालमस्पन्दनं वनम् । अनूपं पर्व्वतो राजा दुर्भिक्षे नव वृत्तयः ॥” शकटा धान्यादिवहनद्बारेणोपजीव्यः । “पत्रं पुष्पं फलं कन्दं नालं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥” [] इति वैद्योक्तशाकयोगात् शाकिनीगृहवाटिका- शाकाद्याहरणेन । गावो दुग्धादिना । जालं मत्स्याद्याहरणेन । अस्पन्दनं स्वस्थानादत्यागः ऋणादिलाभेन । व्ययाधिक्यनिवृत्त्या च । वनं फलपुष्पाद्याहरणेन । अनूपं बहूदकदेशः समृणालशालूकाद्याहरणेन । पर्व्वतो गैरिक- मृदाद्याहरणेन । राजा भैक्षादिना । इत्या- ह्रिकतत्त्वम् ॥ * ॥ दुर्गाया अनुचरीविशेषः । यथा, -- “डाकिनी योगिनी चैवखेचरी शाकिनी तथा । दिक्षु पूज्या इमा देव्यः सुसिद्धाः फलदायिकाः ॥” इति कात्यायनीकल्पः ॥ “ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । ततः परशिवो देवि षट्शिवाः परिकीर्त्तिताः ॥ मूलाधारे तु ब्रह्माणं डाकिनीसहितं न्यसेत् ॥ सर्व्वत्रं त्र्यक्षरीमुक्त्वा वादिसान्तं सबिन्दुकम् ॥ स्वाधिष्ठानाख्यचक्रे तु सविष्णुं राकिणीं तथा । वादिलान्तं प्रविन्यस्य नाभौ तु मणिपूरके ॥ डादिफान्तार्णसहितं रुद्रञ्च लाकिनीं तथा । अनाहते कादिठान्तं ईश्वरं काकिनीं तथा ॥ विशुद्धाख्ये महाचक्रे षोडशस्वरसंयुतम् । सदाशिवं शाकिनीन्तु विन्यसेत् पूर्व्ववत्ततः ॥ आज्ञाचक्रे तु देवेशि ह-क्ष-वर्णसमन्वितम् । परं शिवं ब्रह्मरूपं हाकिनीसहितं न्यसेत् ॥” इति तारान्यासभेदः । इति तन्त्रसारः ॥
📄 मूल मुद्रित पृष्ठ (5-043-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।