🕉️ 24 November 2026, Tuesday · 09:09:01 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

शाब्दबोध
śābdabodha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
शाब्दबोध संज्ञा पुं॰ [सं॰] शब्दों के प्रयोग द्वारा अर्थ का ज्ञान । वाक्य के तात्पर्य का ज्ञान ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
शाब्द—बोध m. ‘verbal knowledge’, apprehension of the meaning of words, perception of the verbal or literal sense (of a sentence &c.)
📄 मूल मुद्रित पृष्ठ (1065,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
शाब्दबोध पु० शब्देन निर्वृत्तः अण् कर्म० । अन्वयबोधे शब्द- ज्ञानजन्ये पदार्थस्मृतिद्बारके ज्ञानभेदे न्यायमतम् । शा- ब्दत्वं त्वनुभवत्वव्याप्यं जातिभेदः तद्बोधप्रकारादि भाषा० उक्तं यथा “पदज्ञानन्तु करणं द्वारं तत्र पदा- र्षधीः । शाब्दबोधः फलं तत्र शक्तिधोः सहकारिणी । लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः । आसत्तियो- ग्यताकाङ्क्षातात्पर्य्यज्ञानमिष्यते” । भाषा० सि० मु० विवृत- मेतत् यथा “शाब्दबोधप्रकारं दर्शयति । पदज्ञानन्त्विते । न तु ज्ञायमानं पदं करणम् पदाभावेऽपि मौनिश्लोकादौ शाब्दवोधात् । पदार्थधीरिति । पदजन्यपदार्थस्मरणं व्यापारः । अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थो- पस्थितावपि शब्दबोधापत्तेः । तत्रापि वृत्त्या पद- जन्यत्वं बोध्यम् । अन्यथा घटादिपदात् समवायसम्ब- न्धेन यत्राकाशस्मरणं जायते तत्राकाशस्यापि शाब्द- मोधापत्तेः । वृत्तिः शक्तिलक्षणान्यतरः सम्बन्घः । अत्रैव शक्तिज्ञानस्योषयोगः । पूर्वं शक्तिग्रहाभावे पद- ज्ञानेऽपि तत्सम्बन्धेन स्मरणानुपपत्तेः । पदज्ञानस्य सम्बन्धिज्ञानविधयार्थस्मारकत्वम् । शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः । सा चास्माच्छब्दादयमर्थो बोद्धव्य इतीश्वरेच्छारूपा । आधुनिके नाम्नि शक्तिरस्त्येव । “एकादशेऽहनि पिता नाम कुर्य्यात्” इतीश्वरेच्छायाः सत्त्वात् । आधुनिके तु सङ्केते न शक्तिरिति सम्प्रदायः । नघ्यास्तु ईश्वरेच्छा न शक्तिः किन्त्विच्छैव । तेन आधु- निकसङ्केतेऽपि शक्तिरस्तीति वदन्ति” ।
📄 मूल मुद्रित पृष्ठ (5098,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
शाब्दबोधः, पुं, (शाब्दः शब्दसम्बन्धी बोधः ।) शब्दार्थज्ञानम् । न्यायमते पदार्थज्ञानजन्य- ज्ञानम् । तस्य करणं पदज्ञानम् । तस्य कारणं पदशक्तिज्ञानम् । कदाचित् लक्षणाज्ञानम् । एवं आकाङ्क्षायोग्यतासत्तितात्पर्य्यज्ञानञ्च । यथा, -- “पदज्ञानन्तु करणं द्वारं तत्र पदार्थधीः । शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥” इति भाषापरिच्छेदः ॥ * ॥ शाब्दबोधप्रकारं दर्शयति पदज्ञानन्त्विति । न तु ज्ञायमानं पदं करणं पदाभावेऽपि मौनि- श्लोकादौ शाब्दबोधात् । पदार्थधीरिति पद- जन्यपदार्थस्मरणं व्यापारः । अन्यथा पदज्ञान- वतः प्रत्यक्षादिना पदार्थोपस्थितावपि शाब्द- बोधापत्तेः । तत्रापि वृत्त्या पदजन्यत्वं बोध्यं अन्यथा घटादिपदात् समवायसम्बन्धेन आकाश- स्मरणे जाते आकाशस्यापि शाब्दबोधापत्तेः । वृत्तिः शक्तिलक्षणान्यतरसम्बन्धः । अत्रैव शक्ति- ज्ञानस्य उपयोगः । पूर्व्वं शक्तिग्रहाभावे पदज्ञानेऽपि तत्सम्बन्धेन स्मरणानुपपत्तेः । पदज्ञानस्य हि सम्बन्धिज्ञानविधेयार्थस्मार- कत्वम् । * । शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः । अस्माच्छब्दादयमर्थो बोद्धव्य इती- श्वरेच्छारूपा आधुनिके नाम्नि शक्तिरस्त्येव एकादशेऽहनि पिता नाम कुर्य्यादितीश्वरे- च्छायाः सत्त्वात् आधुनिके तु सङ्केते न शक्ति- रिति सम्प्रदायः । नव्यास्तु ईश्वरेच्छा न शक्तिः किन्त्विच्छैव तेनाधुनिकसङ्केतेऽपि शक्तिरस्तीति वदन्ति । * । शक्तिग्रहश्च व्याकरणादितः । तथा हि । “शक्तिग्रहं व्याकरणोपमान- कोषाप्तवाक्याद्ब्यवहारतश्च । वाक्यस्य शेषाद्बिवृतेर्व्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥” धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद्- भवति क्वचित्तु सति बाधके त्यज्यतेऽपि । यथा, वैयाकरणैराख्यातस्य कर्त्तरि शक्तिरुच्यते । चैत्रः पचतीत्यादौ कर्त्रा सह चैत्रस्याभेदान्वय- स्तत्र गौरवान्न जन्यते किन्तु कृतौ शक्तिग्रहो लाघवात् । कृतिश्चैत्रादौ प्रकारीभूय भासते । न च कर्त्तुरनभिधानाच्चैत्रादिपदानन्तरं तृतीया स्यादिति वाच्यं कर्त्तृसंख्यानभिधानस्य तत्र तन्त्रत्वात् । संख्याभिधानयोग्यश्च कर्म्मत्वाद्यन- वरुद्धः । प्रथमान्तपदोपस्थाप्यकर्म्मत्वादीत्यस्य विशेषणत्वतात्पर्य्याविषयत्वमर्थः तेन चैत्र इव [] गच्छतीत्यादौ न चैत्रे संख्यान्वयः । यत्र कर्म्मादौ न विशेषणत्वतात्पर्य्यं तद्वारणाय प्रथमान्तेति । यद्वा धात्वर्थातिरिक्ताविशे- षणत्वं प्रथमदलार्थः तेन चैत्र इव गच्छ- तीत्यत्र चैत्रादेर्व्वारणं स्तोकं पचतीत्यादौ स्तोकादेर्व्वारणाय च द्वितीयदलम् । तस्य द्वितीयान्तोपस्थाप्यत्वाद्बारणम् । एवं व्यापारे- ऽपि न शक्तिर्गौरवात् । रथो गच्छति इत्यादौ तु स्वव्यापारे आश्रयत्वे वा लक्षणा । जानाति इत्यादौ तु आश्रयत्वे नश्यतीत्यादौ प्रतियोगित्वे निरूढलक्षणा । उपमानाद्यथा शक्तिग्रह- स्तथोक्तम् ॥ * ॥ एवं कोषादपि शक्तिग्रहः सति बाधके क्वचित्त्यज्यते यथा नीलादि- पदानां नीलरूपादौ नीलादिविशिष्टे च शक्तिः कोषे व्युत्पादिता तथापि लाघवात् नीलादौ शक्तिः नीलादिविशिष्टे लक्षणेति ॥ * ॥ एव- माप्तवाक्यादपि । यथा, कोकिलः पिकपद- वाच्यः इत्यादिशब्दात् पिकादिशक्तिग्रहः ॥ * ॥ एवं व्यवहारादपि । यथा, प्रयोजकवृद्धेन घट- मानयेत्युक्तं तत् श्रुत्वा प्रयोज्यवृद्धेन घट आनीत- स्तदवधार्य्य पार्श्वस्थो बालो घटानयनरूपं कार्य्यम् । घटमानय इति शब्दप्रयोज्यं अव- धारयति ततश्च घटमपसारय गामानय इत्यादौ आवापोद्बापाभ्यां घटादिपदानां कार्य्यान्वित- घटादौ शक्तिं गृह्णाति ॥ * ॥ एवं वाक्यशेषा- दपि शक्तिग्रहः । यथा यवमयश्चरुर्भवतीत्यत्र यवपदस्य दीर्घशूकविशिष्टे आर्य्याणां प्रयोगः कङ्गौ च
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬