🕉️ 23 November 2026, Monday · 03:23:26 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

शालग्राम
śālagrāma
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
शालग्राम संज्ञा पुं॰ [सं॰]
१. विष्णु की एक प्रकार की मूर्ति जो पत्थर की होती है और नारायणी नदी में पाई जाती है । विशेष—यह मूर्ति प्रायः पत्थर की गोलियों या बटियों आदि के रूप में होती है और उसपर चक्र का चिह्न बना होता है जिसे लोग साधारण बोलचाल की भाषा में जनेऊ कहते हैं । जिस शिला पर यह चिह्न नहीं होता वह पूजन के लिये उपयुक्त नहीं मानी जाती । लोग अन्य देवमूर्तियों की भाँति इसकी भी पहले प्रतिष्ठा करते हैं । और तब इसका पूजन करते हैं । अनेक पुराणों में इसकी पूजा का माहात्म्य मिलता है ।
२. बड़ी गंडकी या नारायणी नदी के किनारे का एक गाँव । विशेष—इस गाँव के समीप शाल के वृक्ष बहुत अधिकता से हैं । इस गाँव के पास ही नदी में शालग्राम शिलाएँ भी पाई जाती हैं । वैष्णव लोग इस गाँव को बहुत पवित्र मानते हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
शाल—ग्राम m. N. of a village situated on the river Gaṇḍakī and regarded as sacred by the Vaiṣṇavas (its name comes from the Śāl trees growing near it), Prab.; Pur.
N. of Viṣṇu as worshipped at Śāla-grāma or as identified with the Śālgrām stone, MBh.
शाल—ग्राम m. n. a sacred stone worshipped by the Vaiṣṇavas and supposed to be pervaded by the presence of Viṣṇu (it is a black stone which contains a fossil ammonite and is chiefly found near the above village in the Gaṇḍakī), RTL. 69, 1412
शाल-ग्राम &c. See 1. शाल, col. 1.
📄 मूल मुद्रित पृष्ठ (1067,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
शालग्राम पु० शालानां वृक्षाणां ग्रामः समहो यत्र । १ पर्वतभेदे तत्र जातः अण् । तत्र जाते २ विष्णोर्मूर्त्तिभेदे गण्डकशब्दे २५११ पृ० दर्शिते गण्डक्या एकदेशस्थ लभेदजाते ३ विष्ण्वादिदेवचक्रयुक्तशिलाभेदे च तदुत्पत्ति- र्लक्षणभेदेन तन्नामभेदाश्च यथा “कीटयोनिं प्रपद्येथा” इति गण्डक्याः सुरान् प्ततिशापे “तेन कर्मविपाकेन जडा कृष्णा नदी भयेति” देवानां गण्डकीं प्रति शापे च जाते विष्णुना तत्समाधानायोक्तं यथा “शृणु ब्रह्मन्! महादेव! शृणु देव! गजानन! । मद्गणो ब्राह्मणौ ग्राहमातङ्गौ शापतोऽत्र वै । भविष्यतस्तयोर्मक्षं मविष्यामि कलेवरम् । शीर्णं भविष्यति यदा तन्मेदोमज्जसंभवाः पाषाणान्तर्गताः कीटा वज्राख्याः प्रभविष्यथ” इति “अद्यैव गण्डकी पुण्या गङ्गातुल्या महानदी । गण्डक्यां गिरिराजस्य दक्षिणे दशयोजनम् । विस्तोर्णं तन्महाक्षेत्रं पुण्य- शेत्रं महीतले । चक्रतीर्थमिति ख्यातं त्रिषु लोकेषु विश्रुतम् । शालग्रामगता देवा देवो द्वारावतीं गतः । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः । सर्वदेवप्रीति करा भुक्तिमुक्तिप्रदायिनः । भवन्त्वस्यां तु पाषाणा- मेतदन्तर्गता सुराः । प्रार्थितं स्वं विना सर्वे वज्रकीटा भवन्त्विति । अनेनैव तु गण्डक्याः पुत्रत्वं भवतामपि । मविष्यति तदन्तश्च चिह्नं तद्दैवतोद्भवम् । विज्ञाय येऽर्च- विष्यन्ति प्रीषतां सा च देवता” इति विष्णूक्तौ ब्रह्मणा तल्लक्षणस्य प्रश्ने विष्णूक्तिर्यथा “स्योयवर्णा शिला पूज्या ब्राह्मणाद्यैः सुखाप्तस्ये । स्रिग्धा शिला मन्त्रसिद्धिं रूक्षाऽसिद्धिं करोति च । मेचका कोर्त्तिहा धौताङ्गारवत् सा यशोहरा । पाण्डुरूपार्थ- शमनि मलिना पापधीकरी । पीता पुत्रफलं दद्या- रवर्णा सुतान् हरेत् । नीला संदिशते लक्ष्मीं धूम्राभा हरते मतिम् । रोगप्रदा रक्तवर्णा सिन्दूराभा महा [] कलिम् । दारिद्र्यकारिणी वक्रा समा सर्वार्थसाधिका । स्थूला निहन्ति चैवायुः सूक्ष्मा स्वल्पमतिं हरेत् । पूजाफलं लाञ्छितया निष्फला लाञ्छनं विना । क- पिला चित्तवैकल्यं नेत्रयोगञ्च कर्वुरा । भग्ना भङ्गकरो- ज्ञेया बहुचक्रापमानदा । लक्षणान्तरहीना च देवचक्रा वियोगदा । वृहन्मुखी कलत्रघ्नी वृहच्चक्रा सुतान् हरेत् । संलग्नचक्रा त्वसुखं बद्धचक्रा महागदम् । भग्न- चक्रा तु दारिद्र्यं सर्वनाशं त्वधोमुखी । कुष्ठादिकं व्यालमुखी विषमा विविधापदः । विकृताबर्त्तनाभिश्च विकारान् कुरुते वहून् । वंशच्छेदो गृहस्थानां नार- सिंह्यां प्रजायते । रेखार्त्ता दुःखदात्री च यथा सूक्ष्मा तथा सुखम् । यथा स्निग्धा तथा लक्ष्मीस्तद्विभेदानतः शृणु । लक्ष्मोहरिः १ स विज्ञेयो यत्र पद्मं सचक्रकम् । केवला वनमाला च गृहस्थानामभीष्टदा । वासुदेवः २ स विज्ञेयो यद्द्वारे चक्रयुग्मकम् । निरन्तरं समं चापि स श्वेतः पापनाशनः । सङ्कर्षणः ३ स विज्ञेयः प्राक्- पश्चाच्चक्रयुग्मकम् । संलग्नपूर्वभागस्थं महारत्नं सुशो- भनम् । प्रद्युम्नः ४ सूक्ष्मचक्रं स्याच्छिद्रं दीर्घं सुवि- स्तरम् । सुस्थिरान्वबेहिश्छिद्रः पीत इष्टप्रदायकः । अनिरुद्धस्तु ५ नीलाभो वर्तुलश्चातिशोभनः । रेखाद्वयं तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम् । केशवः६ स तु विज्ञेयस्त्वेकं वा द्वयमेव वा । प्राग्वा पश्चाच्च चक्रं स्यात् चतुष्काणः स भाग्यकृत् । नारायणः ७ श्यामवर्णो नाभौ चक्रं तथोन्नतम् । दीर्घरेखासमायुक्तं दक्षिणे शुषिरं पृथु । हरिरूपा ८ शिला सा स्यात् यथा ऊर्द्धं सुखं भवेत् । हरिवद् दृश्यते द्वारं भुक्तिमुक्तिप्रदा तु सा । परमेष्ठी ९ स विज्ञेयः पद्मचक्रान्वितस्तु यः । यि- ल्वाकृतिश्च शुक्राभः पृष्ठे च शुषिरं महत् । विष्णुस्तु १० कृष्णवर्णः स्यात् स्थूलचक्रे सुशोभ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
शालग्रामः, पुं, विष्णुमूर्त्तिविशेषः । स च गण्ड- क्युद्भववज्रकीटकृतचक्रयुक्तशिला द्वारकोद्भव- तादृशशिला च । तस्य माहात्म्यलक्षणादि यथा, -- “प्रसङ्गात् कथयिष्यामि शालग्रामशिलार्च्चनम् । निष्कामो मुक्तिमाप्नोति मूर्त्तिं ध्यायन् स्तुवन् जपन् ॥ शङ्खचक्रगदापद्मं केशवाख्यो गदाधरः । साब्जकौमोदकीचक्रशङ्खी नारायणो विभुः ॥ स च शङ्खाब्जपदो माधवः श्रीगदाधरः । गदाब्जशङ्खचक्री वा गोविन्दाख्यो गदाधरः ॥ पद्मशङ्खादिगदिने विष्णुशङ्खाय वै नमः । सशङ्खाब्जगदाचक्रमधुसूदनमूर्त्तये ॥ नमो गदासिचक्राब्जयुक्तत्रैविक्रमाय च । साविकौमोदकीपद्मशङ्खवामनमूर्त्तये ॥ शङ्खाब्जचक्रगदिने नमः श्रीधरमूर्त्तये । हृषीकेश साविगदाशङ्खपद्मिन्नमोऽस्तु ते ॥ साब्जशङ्खगदाचक्रपद्मनाभस्वरूपिणे । दामोदर शङ्खगदाचक्रपद्मिन्नमोऽस्तु ते ॥ साविशङ्खगदाब्जाय वासुदेव नमो नमः । शङ्खाब्जचक्रगदिने दमः सङ्कर्षणाय च ॥ शङ्खचक्रगदाब्जाय धृतप्रद्युम्नमूर्त्तये । नमोऽनिरुद्धाय गदाशङ्खाब्जवरधारिणे ॥ साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये । नमोऽधोक्षजरूपाय गदाशङ्खविधारिणे ॥ नृसिंहमूर्त्तये पद्मगदाशङ्खविधारिणे । पद्माविशङ्खगदिने नमोऽस्त्वच्युतमूर्त्तये ॥ सशङ्खचक्राब्जगदं जनार्द्दनमिहो नमः । उपेन्द्रं गदिनं साविपद्मशङ्ख नमोऽस्तु ते ॥ सचक्राब्जगदाशङ्खयुक्ताय हरिमूर्त्तये । [] सगदाब्जाविशङ्खाय नमः श्रीकृष्णमूर्त्तये ॥ शालग्रामशिलाद्बारगतलग्नद्विचक्रधृक् । शुक्लाभाख्यश्च सोऽव्याद्बः सदैव श्रीगदाधरः ॥ लग्नद्विचक्रो चक्राभः पूर्व्वभागस्तु पुष्कलः । सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः ॥ स दीर्घः स शिरश्छिद्रो योऽनिरुद्धस्तु वर्त्तुलः । नानाहारद्बिरेखश्च अथ नारायणोऽसितः ॥ मध्ये गदाकृता रेखा नाभिपद्ममहोन्नतः । पृथुचक्रो नृसिंहो वः कपिलोऽव्यात्त्रिबिन्दुकः ॥ अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः । वराहशक्तिलिङ्गोऽव्याद्विषमद्बयचक्रकः ॥ नीलस्त्रिरेखः स्थूलोऽथ कूर्म्ममूर्त्तिः स्वबिन्दुमान् । कृष्णः सवर्त्तुलावर्त्तः पाण्डरोन्नतपृष्ठकः ॥ श्रीधरः पञ्चरेखोऽव्याद्वनमालागदाङ्कितः । वामनो वर्त्तुलो नाम वामचक्रः सुरेश्वरः ॥ नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्वनन्तकः । स्थूलो दामोदरो नीलो मध्ये चक्रः सुनीलकः ॥ संकीर्णद्वारको वोऽव्यादथ ब्रह्मा सुमोहितः । सदीर्घरेखा शुषिर एकचक्राम्बुजः पृथुः ॥ प्रत्युच्छिद्रः स्थूलचक्रः कृष्णोऽबिन्दुश्च बिन्दुमत् । हयग्रीवोऽङ्कुशाकारः पञ्चरेखः ममन्ततः ॥ वैकुण्ठोऽमलवद्भाति एकचक्रात्मकोऽसितः । मत्स्यो दीर्घाम्बुजाकारो द्बाररेखस्तु पाण्डरः ॥ वामचक्रो दक्षरेखः श्यामो वोऽव्यात्त्रिविक्रमः । शालग्रामे द्वारकायां स्थिताय गदिने नमः ॥ एकेन लक्षितो वोऽव्याद्गदाधारी सुदर्शनः । लक्ष्मीनारायणो द्वाभ्यां त्रिभिर्मूर्त्तिस्त्रिविक्रमः ॥ चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः । प्रद्युम्नः षड्भिरेवाव्यात् सङ्कर्षण इतः स्तुतः ॥ पुरुषोत्तमोऽष्टभिः स्याच्च नवव्यूहो नवान्नितः । दशावतारो दशभिरनिरुद्धोऽवतादथ । द्वादशात्मा द्वादशभिरत ऊर्द्ध्वो ह्यनन्तकः ॥” इति पाद्मे पातालखण्डे १० अध्यायः ॥ अपि च । ईश्वर उवाच । “शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च । नित्यन्तु श्रीहरेः पूजा केवलेन जलेन तु ॥ गण्डक्यामेकदेशे तु शालग्रामस्थलं महत् । पाषाणान्तर्भवं यत्तत् शालग्राममिति स्थितम् ॥ शालग्रामशिलास्पर्शात् कोटिजन्माघनाशनम् । किं पुनर्जननं तत्र हरेः सान्निध्यकारणम् ॥ शालग्रामैकयजनात् शतलिङ्गफलं लभेत् । बहुभिर्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् ॥ गोष्पदेन च चिह
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬