🕉️ 20 November 2026, Friday · 01:22:27 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

शिलीपद
śilīpada
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
शिलीपद संज्ञा पुं॰ [सं॰] फीलपाँव नामक रोग । श्लीपद ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
शिलीपद m. (= श्ली-प्˚) enlarged or swelled leg, elephantiasis, Dhūrtas.
📄 मूल मुद्रित पृष्ठ (1073,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
शिलीपद पु० शिलो द्वाराधःखकाष्ठमिव पदमणात् । रोग- भेदे (गोद) शब्दर० पृषो० । श्लीपदमप्यत्र न० भावप्र० । तन्निदानादि भावप्र० उक्तं यथा “पुराणोदकभूयिष्ठाः सर्वर्त्तुषु च घीतत्राः । ये देशा- स्तेषु जायन्ते श्लीपदानि विशेषतः” । विशेषत इति वचनेनान्यत्रापि श्लीपदं भवतीति बोध्यते । अथ श्ली- पदस्य सामान्यलक्षणमाह “यः सज्वरोवङ्क्षक्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण । तत् श्लीपदं स्यात्करकर्णनेत्रशिश्नौष्ठनासास्यपि केचिदाहुः” । तत्त्रि- विधम् वातिकं पैत्तिकं श्लैष्मिकञ्चेति । तत्र तेषां कमेण लक्षणान्याह “वातजं कृष्णरूक्षं हि स्फुटितं तीव्र- वेदनम् । अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च । पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम । श्लैष्मिकन्तु भवेत् स्निग्धं तथा पाण्डुरमस्थिरम् । त्रीण्यप्येतानि जानोयात् श्लीपदानि कफात् पुनः । गुरुत्वञ्च मह- त्त्वञ्च यस्मातास्ति विना कफात्” । अथासाध्यमाह “बलमीकमिव सञ्जातं कण्टकैरुपचोयते । अव्दात्मकन्म- हत्तत्तु वर्जनीयं विशेषतः । यत् श्लैष्मिकाहारविहार- त्वातैर्जातं तथाभरिकफस्थ पुंसः । वास्तावमत्युन्नतभर्व- [] लिङ्गं सकण्डुकञ्चापि विवर्जनीयम्” अचिकित्स्यत्वादिति शेषः ।
📄 मूल मुद्रित पृष्ठ (5111-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
शिलीपदः, पुं, (शिलीव स्थूलं पदमस्मात् ।) पादरोगविशेषः । गोद इति भाषा । तत्पर्य्यायः पदगण्डीरः २ श्लीपदः ३ । इति शब्दरत्नावली ॥ पादवल्मोकः ४ । इति हेमचन्द्रः ॥ श्लीपदस्य विप्रकृष्टं निदानमाह । “पुराणोदकभूयिष्ठाः सर्व्वर्त्तुषु च शीतलाः । [] ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ॥” विशेषत इति वचनेनान्यत्रापि श्लीपदानि भवन्ति इति बोध्यते ॥ * ॥ सामान्यं लक्षणमाह । “यः सज्वरो वंक्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण । तत् श्लीपदं स्यात् करकर्णनेत्र- शिश्नोष्ठनासास्वपि केचिदाहुः ॥” तत्त्रिविधम् । वातिकं पैत्तिकं श्लैष्मिकञ्चेति । तेषां लक्षणमाह । “वातजं कृणरूक्षं हि स्फुटितं तीव्रवेदनम् । अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च ॥ * ॥ पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम् ॥ * ॥ श्लैष्मिकन्तु भवेत् स्निग्धं तथा पाण्डुगुरु स्थिरम् ॥ त्रीण्यप्येतानि जानीयात् श्लीपदानि कफो- च्छ्रयात् । गुरुत्वञ्च महत्त्वञ्च यस्मान्नास्ति विना कफान् ॥” असाध्यमाह । “वल्मीकमिव संजातं कण्टकैरुपचीयते । सर्व्वात्मकं महत्त्वञ्च वर्जनीयं विशेषतः ॥ यत् श्लेष्मलाहारविहारजातै- र्जातं तथा भूरिकफस्य पुंसः । सास्रावमप्युन्नतिसर्वलिङ्गं सकण्टकं वापि विवर्जीनीयम् ॥” अस्य चिकित्सा । “लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः । प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥ सिद्धार्थशोभाञ्जनदेवदारु- विश्वौषधैर्मूत्रयुतैः प्रलिम्पेत् । पुनर्नवा नागरसर्षपाणां कल्केन वा काञ्जिकमिश्रितेन ॥” श्लीपदमिति शेषः । “धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रसर्षपैः । प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् ॥ असाध्यमपि यात्यन्तं श्लीपदं चिरकालजम् । मूलेन सहचरायाः तालमिश्रेण लेपनात् ॥” तालस्य फलरसो ग्राह्यः । “सप्तलास्थूलपत्राणां कल्कं तप्तेन वारिणा । संसृष्टं लवणोपेतं सेवितं श्लीपदं हरेत् ॥ शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत् । श्लीपदानां विनाशाय मेदोदोषनिवृर्त्तये ॥ रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः । वर्षोत्थं श्लीपदं हन्ति दद्रुकुष्ठं विशेषतः ॥ वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम् । सक्षौद्रं श्लीपदं लिह्याच्चिरोत्थं श्लीपदं जयेत् ॥ गन्धर्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबति । श्लीपदविबन्धमुक्तो भवत्यसौ सप्तरात्रेण ॥” गन्धर्वतैलं एरण्डतैलम् । गोऽम्बुना गोमुत्रेण । इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (5-077-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें