🕉️ 22 November 2026, Sunday · 06:05:13 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

शिवलिंग
śivaliṃga
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
शिवलिंग संज्ञा पुं॰ [सं॰ शिवलिङ्ग] महादेव का लिंग या पिंडी जिसका पूजन होता है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
शिव—लिङ्ग n. Śiva's genital organ or Śiva worshipped in the form of the Liṅga, VarBṛS.; Kathās.
any temple or spot dedicated to the worship of Śiva's Liṅga, MW.
N. of the city Kāśī or Benares, Gal.
शिव—लिङ्ग m. (with चोल-भूपति) N. of an author
📄 मूल मुद्रित पृष्ठ (1075,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
शिवलिङ्गं, क्ली, (शिवस्य लिङ्गम् ।) महादेवस्य शेफः । तस्योत्पत्तिर्यथा, -- “तत्रापि गत्वा मदनो ददर्श वृषकेतनम् । दृष्ट्वा प्रहर्त्तुकामोऽस्य ततः स प्राद्रवद्धरः ॥ ततो दारुवनं घोरं मदनाभिसृतो हरः । विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः ॥ ते चापि ऋषयः सर्व्वे दृष्ट्वा मूर्ध्ना नताभवन् । ततस्तान् प्राह भगवान् भिक्षां मे प्रतिदीयताम् ततस्ते मौनिनस्तस्थुः सर्व्व एव महर्षयः । तदाश्रमाणि पुण्यानि परिचक्राम नारद ! ॥ तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः । प्रक्षोभमगमन् सर्व्वा हीनसत्त्वाः समन्ततः ॥ ऋते त्वरुन्धतीमेनामनसूयाञ्च भाविनीम् । एताभ्यां भर्त्तृपूजासु कृतं वै सुस्थिरं मनः ॥ ततः संक्षुभिताः सर्व्वा यत्र याति महेश्वरः । तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः ॥ त्यक्त्वाश्रमाणि शून्यानि खानि ता मुनियोषितः । अनुजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम् ॥ ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने । क्रोधान्विताब्रुवन् सर्व्वे लिङ्गोऽस्य पततां भुवि ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयत् । अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः ॥ ततस्तत्पतितं लिङ्गं विभिद्य वसुधातलम् । रसातलं विवेशाशु ब्रह्माण्डं चोर्द्ध्वतोऽभिनत् ॥ ततश्चचाल पृथिवी गिरयः सरितो नगाः । पातालभुवनाः सर्व्वे जङ्गमाजङ्गमाः स्थिताः ॥ संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पिता- महः । जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम् ॥ तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः । उवाच देव भुवनाः किमर्थं क्षुभिता विभो ॥ [] अथोवाच हरिर्ब्रह्मन् शार्व्वं लिङ्ग महर्षिभिः । पातितन्तस्य भारार्त्ता सञ्चचाल वसुन्धरा ॥ ततस्तदद्भुतमयं श्रुत्वा देवः पितामहः । तत्र गच्छामि देवेश एवमाह पुनः पुनः ॥ ततः पितामहो देवः केशवश्च जगत्पतिः । आजगाम तमुद्देशं यत्र लिङ्गं भवस्य तत् ॥ ततोऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम् । पातालं प्रविवेशाथ विस्मयात्त्वरितो विभुः ॥ ब्रह्मा पद्मविमानेन ऊर्द्ध्वमाक्रम्य सर्व्वगः । नैवान्तमलभद्ब्रह्मा विस्मितः पुनरागतः ॥ विष्णुर्गत्वाथ पातालं सप्तलोकपरायणः । चक्रपाणिर्विनिष्क्रान्तो लेभेऽन्तं न महामुने ॥ विष्णुं पितामहश्चाह हरिर्ब्रह्माणमाह च । नमोऽस्तु ते शूलपाणे नमोऽस्तु वृषभध्वज । जीमूतवाहन कवे सर्व्वत्र्यम्बक शङ्कर ॥ महेश्वर हरेशान सुवर्णाक्ष वृषाकपे । दक्षयज्ञक्षयकर काल रुद्र नमोऽस्तु ते ॥ त्वमादिरस्य जगतस्त्वं मध्यं परमेश्वरः । भवानन्तश्च भगवान् सर्व्वगस्त्वं नमोऽस्तु ते ॥ पुलस्त्य उवाच । एवं संस्तूयमानस्तु तस्मिन् दारुवने हरः । सुरूपी ताविदं वाक्यमुवाच वदतां वरः ॥ हर उवाच । किमर्थं देवतानाथौ परिभूतक्रमन्त्विह । मां स्तुवाते भृशासुस्थं कामतापितविग्रहम् ॥ देवावूचतुः । तवाङ्गपातितं लिङ्गं यदेतद्भुवि शङ्कर । एतत् प्रगृह्यतां भूयस्ततो देव वदावहे ॥ हर उवाच । यद्यर्च्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ । तदेतत् प्रतिगृह्णीयात् नान्यथेति कथञ्चन ॥ ततः प्रोवाच भगवानेवमस्त्विति केशवः ॥ ब्रह्मा स्वयञ्च जग्राह लिङ्गं कनकपिङ्गलम् । ततश्चकार भगवांञ्चातुर्वर्ण्यं हरार्च्चने ॥ शास्त्राणि चैषां मुख्यानि नानोक्तिविदि- तानि च । आद्यं शैवं परिख्यातमन्यत् पाशुपतं मुने ॥ तृतीयं कालवदनं चतुर्थञ्च कपालिनम् । शैव आसीत् स्वयं शक्त्रिर्वशिष्ठस्य प्रियः सुतः ॥ तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः । महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः ॥ तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः । कालास्यो भगवानासीदापस्तम्बस्तपोधनः ॥ तस्य शिष्यो वको वैश्यो नाम्ना क्राथेश्वरो मुने । महाव्रती च धनदस्तस्य शिष्यश्च वीर्य्
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬