शृङ्गी, [न्] पुं, (शृङ्ग + इनिः ।) हस्ती । वृक्षः । पर्व्वतः । (यथा, रघुः । १२ । ८० । “रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥” ऋषिविशेषः । स तु शमीकपुत्त्रः । अभिमन्यूजः परिक्षित् अनेनाभिशप्तः ।) शृङ्गयुक्ते, त्रि । इति मेदिनी ॥ यथा, रामायणे । २ । २५ । २० । “महिषाः शृङ्गिणौरौद्रा नते द्रुह्यन्तु पुत्त्रक ॥”)
शृङ्गी, स्त्री (शृङ्गि + वा ङीष् ।) मत्स्यविशेषः । शिङ्गी इति जियल इति च भाषा । तत्पर्य्यायः । मद्गुरप्रिया २ । इत्यमरः मधुश्च ॥ मद्गरी ३ । इति कलिङ्गः ॥ मद्गुरसी ४ अप्रिया ५ शृङ्गिः ६ । इति केचिदिति भरतः ॥ अस्या गुणाः । स्वादुरमत्वम् । स्निग्धत्वम् । बृंह- नत्वम् । कफकोपनत्वम् । शोथपाण्डुमरुत्पित्त- नाशित्वञ्च । इति राजवल्लभः ॥ अतिविषा । ऋषभौषधम् । इत्यमरः ॥ कर्कटशृङ्गी । प्लक्षः । वटः । विषम् । इति राजनिर्घण्टः ॥ अलङ्कार- सुवर्णम् । यथा । स्त्री शृङ्गी मण्डनस्वर्णे । इति भरतधृतरत्नकोषः ॥
📄 मूल मुद्रित पृष्ठ (5-135-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।