🕉️ 25 November 2026, Wednesday · 04:44:47 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

श्लेष्मा
śleṣmā
🟠 शब्दसागर🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
श्लेष्मा संज्ञा पुं॰ [सं॰ श्लेष्मन्]
१. वैद्यक के अनुसार शरीर की तीन धातुओं या विकारों में से एक । कफ । बलगम ।
२. रस्सी । बंधन । बांधने की रस्सी ।
३. लिसोड़े का फल । लभेरा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
श्लेष्मा, [न्] पुं, श्लिष + “सर्व्वधातुभ्यो मणिन् ।” उणा० ४ । १४४ । इति मणिन् ।) कफः । इत्यमरः ॥ तस्य प्रकोपहेतुर्यथा, -- “गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्य- द्रवदधिदिननिद्रापूपमर्पिःप्रपूरैः । तुहिनपतनकाले श्लेष्मणः संप्रकोपः प्रभवति दिवसादौ भुक्तमात्रे वसन्ते ॥” * ॥ तस्य लक्षणं यथा, “स्तैमित्यं मधुरास्यता शिशिरता शौक्ल्यं प्रसेको मल- प्राचुर्य्यं स्थिरता रसश्च लवणः कण्डूरतिस्वल्पता आलस्यं चिरकारिता कठिनता शोथारुचिः स्निग्धता तन्द्रा तृप्त्युपदेहकासगुरुता एताः कफोक्ता रुजः ॥” * ॥ अस्य प्रशमताकारणं यथा, -- “गुरुशीतमृदुस्निग्धं मधुरस्थिरपिच्छिलाः । श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः ॥ रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन- स्त्रीसेवाध्वनियुद्धजागररतिक्रीडापदाघातनम् धूमात्युष्णशिरीविरेकवमनस्वे दोपनाहादिकं पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत् ॥” * ॥ स च पञ्चविधो यथा, -- “अवलम्बक इत्येकः क्लेदकः श्लेष्मकोऽपरः । बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः ॥” * एतेषां लक्षणानि यथा, -- “कफधाम्नान्तु शेषाणां यत् करोत्यवलम्बनम् । ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नोत्युरःस्थितः ॥ आमाशयाश्रितः सोऽन्नक्ले दनात् क्लेदकः स्मृतः ॥ २ ॥ श्लेष्मकः श्लेषणात् सन्धेः स च सन्ध्यां व्यव- स्थितः ॥ ३ ॥ [] रसनावस्थितस्त्वेष बोधको रसबोधनात् । ४ । शिरसि प्रस्थितश्चासौ तर्पको नेत्रतर्पणात् ॥” ५ ॥ अस्य स्थानानि । “उरःकण्ठशिरःक्लोमपर्व्वाण्यामाशयो रसः । मेदो घ्राणञ्च जिह्वा च कफस्थानमुरः परम् ॥” तत्प्रकृतिकलक्षणम् । यथा, -- “गम्भीरबुद्धिः स्थूलाङ्गः स्निग्धकेशो महाबलः । स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः ॥ * ॥ स्नेहो बन्धः स्थिरत्वञ्च गौरवं वृष्यता बलम् ।” क्षमा धृतिरलोभश्च कफकर्म्माविकारजम् ॥” इति सुखबोधः ॥ * ॥ श्लेष्मकरद्रव्याणि यथा, -- “भोजनानन्तरं स्नानं जलपानं विना तृषा । तिलतैलं स्निग्धतैलं स्निग्धमामलकीद्रवम् ॥ पर्य्युषितान्नं तक्रञ्च पक्वरम्भाफलं दधि । मायाम्बुशर्करातोयं सुस्निग्धस्थलसेवनम् ॥ नारिकेलोदकं रूक्षस्नानं पर्य्युषितं जलम् । तरुमुञ्जापक्वफलं सुपक्वकर्कटीफलम् ॥ खातस्नानञ्च वर्षाषु मूलकं श्लेष्मकारणम् । तज्जलत्वं ब्रह्मरन्ध्रे च महद्वीर्य्यविनाशनम् ॥” * ॥ इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥ अपिच । एरण्डतैलम् १ अनूपदेशवारि २ वार्षिकपानीयम् ३ पाल्वलजलम् ४ सामान्य- शालिधान्यम् ५ माषः ६ अतसी ७ नूतनधान्यम् ८ मधुरनारीचशाकम् ९ कञ्चटशाकम् १० कलम्बीशाकम् ११ उत्पदिकाशाकम् १२ मध्यमकुष्माण्डफलम् १३ अलावुफलम् १४ शीर्णवृन्तफलम् १५ चेलानम् १६ दीर्घपटो- लिका १७ अलावुनाडिका १८ पिण्डालुकम् १९ करीषपलालक्षितिवेणुभ्यो जातं छत्रिका- शाकम् २० विशेषतः पलालजातसंस्वेदज- शाकम् २१ मधुकुक्कुटिका २२ बहुवार- फलम् २३ बालाम्लिकाफलम् २४ चीरुकम् २५ पक्वकण्टाफलम् २६ कण्टाफलास्थि २७ पक्व- कदलम् २८ तावन्मत्स्यः २९ पाण्डरमत्स्यः ३० क्वथितमत्स्यः ३१ लवणभावितमत्स्यः ३२ भाकुट- मत्स्यः ३३ पाठीनमत्स्यः ३४ शिलिन्दमत्स्यः ३५ मेकलिमत्स्यः ३६ गरमत्स्यः ३७ कर्णफलमत्स्यः ३८ इल्लिशमत्स्यः ३९ शृङ्गीमत्स्यः ४० चिङ्गट- मत्स्यः ४१ वाचमत्स्यः ४२ चिङ्गटीमत्स्यः ४३ गवाचीमत्स्यः अर्थात्पाँकालमत्स्यः ४४ कुलिङ्ग पक्षिमासम् ४५ तावत्क्षीरम् ४६ आम- दुग्धम् ४७ आविकदधि ४८ माहिषदधि ४९ स्वादुदधि ५० अत्यम्लदधि ५१ तावद्घृतम् ५२ माहिषघृतम् ५३ तावदिक्षुः ५४ विशेषतो भीरुनामकेक्षुः ५५ कान्तारीक्षुः ५६ इक्षुः- फाणितम् ५७ इक्षुखण्डः ५८ नवान्नम् ५९ चिपिटः ६० घृतपूरः ६१ पायसः ६२ शस्कुली ६३ सरसगुवाकफलम् ६४ मधुररसः ६
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "श्लेष्मा" आता है (10)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬