षोडशभुजा[फ्णीङ्थ्छ्ःआङ्घै१], स्त्री, (षोडश भूजा यस्याः ।) षोड- शहस्तयुक्ता दुर्गा । यथा, -- “यदा तु षोडशभुजां महामायां प्रपूजयेत् । दुर्गातन्त्रेण मन्त्रेण विशेषं तत्र वै शृणु ॥ कन्यायां कृष्णपक्षस्य एकादश्यामुपोषितः । द्वादष्यामेकभक्तन्तु नक्तं कुर्य्यात् परेऽहनि ॥ चतुर्द्दश्यां महामायां बोधयित्वा विधानतः । गीतवादित्रनिर्षोषैर्नानानैवेद्यवेदनैः ॥ अयाचितं बुधः कुर्य्यात् उपवासं परेऽहनि । एवमेव व्रतं कुर्य्यात् यावद्वै नवमी भवेत् ॥ ज्येष्ठायान्तु समभ्यर्च्च्य मूलेन प्रतिपूजयेत् । उत्तरेणार्च्चनं कृत्वा श्रवणान्ते विसर्ज्जयेत् ॥” इति कालिकापुराणे ५९ अध्यायः ॥ [1] Correction submitted by Jim Funderburk on 20160503. Reference: https://github.com/sanskrit-lexicon/CORRECTIONS/issues/291. note: consider 'BUjA' a misprint; cf zoqaSaBujA in mw, vcp..
📄 मूल मुद्रित पृष्ठ (5-195-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।