सन्तानिका, स्त्री, (सन्तानो विस्तारोऽस्त्यस्या इति । सन्तान + ठन् ।) क्षीरसरः । मर्कट- जालकः । छुरिकाफलम् । फेनः । इति हारा- वली ॥ आद्यस्य गुणाः । “सन्तानिकागुरुः शीता वृष्या पित्तास्रवातजित्” इति राजनिर्घण्टः ॥ मिष्टान्नविशेषः । सरभाजा इति भाषा । तत्- करणप्रकारो यथा । दुग्धं शरावचतुष्टयं शर्क्क- रार्द्धशरावपरिमिताघृतं शरावपादैकञ्च गृहीत्वा तद्दुग्धे आवर्त्तनेन घनीभूते उष्णेस्थिते मन्थान- दण्डेन मथनेन बहुतरफेनो भविष्यति । तत्फेन सहितदुग्धस्य तप्ताङ्गारपरिरक्षणात् सरो जायते । तं सरमस्त्रेण चतुष्कोणाकृतिं निर्म्माय घृतेन भृष्ट्वा एकतारवद्धशर्क्करारसेमग्नं कुर्य्यात् किन्तु तत्राधिकक्षणं न रक्षेत् । इति पाक- राजेश्वरः ॥ (जालकरज्जुः । यथा, सुश्रुते । १ । १ । ८ “अत ऊर्द्धं व्रणबन्धनद्रव्याण्युपदेक्ष्यामः । तद्- यथा क्षौमकार्प्पास-* * विदलरज्जुतूलफल- सन्तानिकालौहानीति ॥”)
📄 मूल मुद्रित पृष्ठ (5-239-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।