सकार ऊष्मवर्णभेदः तस्योच्चारणस्थानं दन्तमूलं तस्योच्चारणे आभ्यलरप्रयत्नः विवृते जिह्वाग्रेण अद्धंस्पर्शनेन चोचा- र्य्यमाणत्वात् अर्द्धस्पृष्टम् । बाह्यपयत्ना विवारश्वासा- घोषाः महाप्राणञ्च अस्य ध्येयरूपं यथा “सकारं शृणु चार्वङ्गि! शक्तिवीजं परात्परम् । कोटिविद्युल्लताकारं कुण्डलीत्रयसयुतम् । पञ्चदेवमयं देवि! पञ्चपाणा- त्मकं सदा । रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा” कामधेनुत० । तस्याधिष्ठातृदेवतारूपं यथा “शुक्लाम्बरां शुक्लवर्णां द्विभुजां रक्तलीचनाम् । श्वेतचन्दनलिप्ताङ्गी मुक्ताहारोपशाभिताम् । गन्धर्वगोयमानाञ्च सदानन्दमयीं पराम् । अष्टसिद्धिप्रदां नित्यां भक्तानन्दविवर्द्धिनीम् । एवं ध्यात्वा सकारन्तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारत० अस्य वाचकशब्दाः “साहंसः सुयशा विष्णुर्भृग्वीश- श्चन्द्रसंज्ञकः । जगद्वीजं शक्तिनामा सोहं वेशवती भृगुः । प्रकृतिरीश्वरः शुद्धः प्रभा श्वेता कुलोज्वलः । दक्षपा- दोऽमृतं ब्राह्मी परमात्मा परोऽक्षयः । सुरूपा च गु- णेशो गौः कलकण्ठो वृकादरी । प्राणाद्या च परा देवी लाक्ष्मीः सोमो हिरण्यपू । दुर्गोत्तारणसम्मोहा जीवो मूर्त्तिर्मनोहरः” वर्णाभिधा० । मातृकान्यामे ऽस्य दक्षपाद न्यास्यता । काव्यादो प्रयोगे फलं सुखम् “सः सौख्यं हस्तु स्वंदम्” वृ० र० टी० । षोपदेशधातूनां प्रयागे दन्त्यादित्वम् “सकारजः षकारश्चेत्युक्तेः सति निमित्ते पुनः षत्वम् ।
📄 मूल मुद्रित पृष्ठ (5173,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।